Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
अध्यायः ६ उ.]
अध्यायः
शास्त्रतत्वविनिर्णयः
दुष्टबुद्धींश्च दुष्टांश्च तस्मात्सृजति नृन्विभुः । अप्रार्थितमपि ह्येतद् भवच्छास्त्रेण सिध्यति ॥११६॥ एवमन्येऽपि बहवो दोषाः सन्ति भवन्मते । इह द्वितीयेऽध्याये च केचित्तेषु प्रदर्शिताः ॥११७॥ किं च दुःखाकुलाञ्जीवान्सृजतीति तु दूषणम्। स्फुटमेव भवच्छास्त्रे जन्मतोऽन्धादिदर्शनात् ॥११८॥ तस्मादोषादियुक्तान्नन्सृजतीति भवन्मतात् । स्वैकांशेन तथा भूत्वा क्रीडतीत्यत्र का क्षतिः॥११९॥ उत्पादको यश्चोराणां स्वयं चोरश्च यो भवेत्। किं तारतम्यमुभयोर्विचारे सति सिध्यति ॥१२॥ किं तु युष्मन्मतेजीवा दोषा अपि च तद्गताः। सत्या एवेशदृष्टयापि तेषां दुःखादिकं च यत् ॥१२१॥ ततो भवन्मते दोषा बहवः प्राङ् निरूपिताः । नैपुण्यप्रमुखा ईशे क्लुप्ता इति विशिष्यते ॥१२२॥ नास्मन्मते तु ते दोषास्तदृष्ट्यास्य मृषात्वतः। किं च प्रारब्धतन्त्रत्वं दुःखादीनां यतो मतम्॥१२३॥ जीवत्वं जीवदोषाश्च ब्रह्मदृष्टया मृषैव हि । नित्यबुद्धतया तच्च स्खे महिम्न्येव तिष्ठति ॥१२४॥ चोरोत्पादकता सत्या विभौ क्लुप्ता भवन्मते। अस्माकं चोरता मिथ्या तस्मादस्मन्मतं वरम् ॥१२५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140