Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
अध्यायः ६ उ. ]
शास्त्रतत्त्वविनिर्णयः
कवीनामपि वै प्राचामतय महिमा हरेः । क उत्कर्षो भवेत्तस्य यद्यस्मबुद्धिगोचरः ॥१३६॥ ईशंदृष्ट्या विलासोऽसौ यज्जीवैरिह भुज्यते । जाग्रदृष्ट्या विलासो हि भुज्यते स्वप्नगेन यत् ॥ १३७ ॥ अखिलै जीवगैर्धर्मैर्तेश्वरोऽण्वपि लिप्यते
1
॥ १४१ ॥
तस्य दृष्ट्या मृषा ते हि नित्यबुद्धस्वभाविनः ॥११८॥ नित्यबुद्धस्वरूपस्य दृष्ट्या भगवतस्त्विमे मृषैव जीवगा धर्मा न स तैर्लिप्यते क्वचित् ॥ १३९ ॥ नित्यशुद्धो नित्यबुद्धो नित्यमुक्तश्च वै विभुः । अकामोऽव्यसनी चैव वेदान्तेष्वेव कथ्यते ॥ १४० ॥ नरैः संसारिभिस्तुल्यः सृजतीशोऽपि वै प्रजाः । इति प्रवदतां पक्ष बहुदोषाः प्रदर्शिताः भवद्भिरैश्वरं कृत्यं तवर्यमाणं स्वया धिया । समीकृतं नृणां कृत्यैर्ननु दोषाकुलीकृतम् ॥ १४२ ॥ अस्माभिर्नित्यतृप्तस्य निर्विकारस्य वै हरेः । मायाया अप्रतर्क्याया विलासः कश्चिदिष्यते ॥ १४३ ॥ च्युतते वाच्युतस्यापि गुणिते वागुणस्य च | अतर्क्यानन्तशक्तेर्हि स्थाने तदिति मन्महे ॥ १४४ ॥ अच्छित्त्वैव यथात्मानमीशे त्रैविध्यमुच्यते । तथाप्यहीनमेकत्वं तद्वदस्याप्यतयता
॥ १४५ ॥
१ एतदादिश्लोकाष्टकम् आ पुस्तके पश्चिमशोधरूपेण लिखितं दृश्यते.
८६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140