Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 124
________________ अध्यायः ६ उ.] - शास्त्रतत्त्वविनिर्णयः ननु जीवस्य किं रूपमीशाद्भिन्नोऽस्त्ययं न वा। भेदे सिद्धान्तहानिः स्यादभेदे त्वीशदूषणम् ॥ ५९॥ अत्रोच्यतेस्वप्ने य एष पुरुषो भ्रमन्भवति दुःखभाक् । सुखं शयानाच्छय्यायां न हि तावद्विभिद्यते॥६०॥ अभेदेऽपि स्वप्नगतैर्दोषैर्जाग्रन्न लिप्यते । विलासायैव ते तस्य स्वप्नगस्तु प्रबाध्यते ॥६१ ॥ स्वप्ने स्तेयादि कुर्वाणस्ताड्यते च तथा परैः। न तेन जाग्रत्पापीयान् स्वप्नगस्तु प्रबाध्यते ॥ ६२ ॥ यत्पापाचरणं स्वप्ने दुःखभोगश्च पुष्कलः । जाग्रदृष्टया विलासोऽसौ स्वप्नगस्तु प्रबाध्यते ॥ ६३ ॥ जाग्रत्स्वप्नगयोर्भेदो वस्तुतो न तथापि तु । विलासमात्रं तदृष्टया तद्दोषैर्न तु लिप्यते ॥६४॥ ईशदृष्टया प्रपञ्चोऽयं विलासायैव केवलम् । न दोषैलिप्यतेऽत्रत्यैः सोऽस्य साक्ष्येव संस्मृतः॥६५॥ स्वैकांशकल्पितं विश्वं पश्यन्साक्षितया स्थितः। न स्वस्वरूपाच्च्यवते ह्यनन्तमहिमा विभुः ॥६६॥ पादोऽस्य सर्वभूतानि पादत्रयमथामृतम् ।। अस्यैकांशो जीववर्ग इति शास्त्रेषु गीयते ॥ ६७ ॥ १ 'भ्रवन्' इति भ्रान्तः पाठः आ इ पुस्तकयोः. २ 'तद्दष्टया'-आ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140