Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
अध्यायः ६
शास्त्रतत्त्वविनिर्णयः
न चेशो भ्रामयत्यस्मानुदासीनतया स्थितः । स्वाज्ञानेनैव मुह्यामो न यावत्तत्त्वदर्शनम् ॥ ४० ॥ प्रत्युतेशो बोधयति वाक्यैर्वेदमयैनिजैः । देहाभिमानं मा कार्षीस्तस्मात्त्वं ह्यतिरिच्यसे ॥४१॥ . नन्वज्ञानमथो बन्धो भवतः कस्य तद्वद । ब्रह्मणश्चत्परं ब्रह्म कथं बन्धेन युज्यते ॥४२॥ उच्यतेनाज्ञानं नापि वा बन्धो ब्रह्मदृष्टयास्ति कहिंचित् । नित्यशुद्धं नित्यबुद्ध नित्यमुक्तं च तत्स्थितम् ॥ ४३ ॥ जीवदृष्टया त्वसौ बन्धश्चिजडाध्याससंभवः । अवास्तवस्त्वसौ यस्मान्मिथ्याज्ञानप्रकल्पितः॥४४॥ विरुद्धश्चिन्मयो ह्यात्मा देहादिजडसंघतः । तयोः परस्पराध्यासे मिथ्यात्वमुचितं भ्रमे ॥ ४५ ॥ यथा प्रकाशतमसोविरोधः सुमहान् स्थितः ।। तथा चिदात्मदेहाधोःस्फुटात्यन्तविरोधिता ॥ ४६॥ यथा मिथोगुणाध्यासः प्रकाशतमसोम॒षा ।। तथा मिथोगुणाध्यासश्चिदात्मजडयोमषा ॥ ४७ ॥ प्रकाशे श्यामताबुद्धिस्तमस्युज्ज्वलतादिधीः । यथा मृषात्मनि तथा कार्य दुःखादिधीभ्रंमः॥ ४८ ॥ भ्रमजन्यस्य बन्धस्य मिथ्यात्वमपि निश्चितम्। भ्रान्तदृष्टया त्वसौ सत्योऽभ्रान्तदृष्टया मृषेव सः॥४९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140