Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
अध्यायः ६
शास्त्रतत्त्वविनिर्णयः नामरूपगता दोषा दूषयन्तोऽपि वै जगत् । नोत्पादयन्ति विकृतिं चिदानन्दमये हरौ ॥२१॥ धर्माधर्मविपाको यः सोऽदृष्टमिति भाष्यते । तौ च देहाभिमानोत्थौ स चाज्ञानप्रकल्पितः ॥ २२ ॥ यथा प्रकाशतमसोविरोधः सुमहान् स्थितः । तथा चिदात्मदेहायोः स्फुटात्यन्तविरोधिता॥ २३ ॥ तमस्तुल्यप्रभावं हि देहादि सकलं जडम् । तेजस्तुल्यस्वभावो वा आत्मासौ चिन्मयो यतः॥ २४ ॥ तथापि देह आत्मत्वमध्यस्यात्मनि देहताम् । अविवेकाच्चिदचितोर्ममाहमिति मन्यते ॥२५॥ ततो देहाद्यहङ्कारात्सुखादौ जायते स्पृहा । तत इष्टानिष्टयोगवियोगार्थं प्रवर्तते साहङ्कारप्रवृत्तेश्च धर्माधर्माभिसंभवः । ततश्च सुखदुःखादि तथा तत्साधनं जगत् ॥ २७ ॥ नेश्वरः स्वोपभोगार्थ जगत्सृजति लोकवत् । किं तु तत्तत्कर्मवशादिति प्राक्प्रतिपादितम् ॥ २८ ॥ यस्य यस्य यथा कर्म न्याय्यं तस्य तथा फलम्। ने युष्मन्मतवत्त्वत्र भोगेच्छा कल्प्यते विभौ ॥ २९॥ १ 'न्याय'- अ. - २ आ इ पुस्तकयोः 'न तु युप्मन्मत इव' इति पाठः प्रागासीद्यः
पश्चात्संशोध्य 'न युष्मन्मतवत्वत्र' इति विहितो दृश्यते.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140