Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
शास्त्रतत्त्वीवीनर्णयः
[अध्यायः ६ उ.
मिथ्याज्ञानादभिमतिः साहङ्कारः प्रवर्तते । धर्माधर्मो ततः स्यातां तद्भोगार्थमिदं जगत् ॥ ३० ॥ क चात्मा चित्स्वभावोऽसौ व देहादि जडं तयोः। वैलक्षण्यं महदिति विवेकाभ्याससंपदा ॥३१॥ दुःखाद्या देहगा धर्मा आत्मभ्यो व्यतिरिच्यते। न मे कश्चिन्न मेऽत्रार्थ इति ज्ञात्वा विमुच्यते॥३२॥ अभिमानोद्भवं दुःखं सर्वेषामानुभाविकम् । तन्निरासात्तन्निरास इत्यपि प्राङ् निरूपितम् ॥ ३३ ॥ धर्माधर्मों सुखं दुःखं सर्वे देहादिगा गुणाः । यस्यैवं वास्तवो बोधो धर्माद्यैर्न स लिप्यते ॥ ३४ ॥ सुखदुःखाभिलाषी यो धर्माधर्मसुनिःस्पृहः । स मिथ्याज्ञानवान्धूर्तो बध्यते स्वेन कर्मणा ॥ ३५ ॥ अत एव हि लोकेऽस्मिन् ज्ञानी परमदुर्लभः । ईशस्य परया भक्त्या लभ्यते तत्कृपावशात् ॥ ३६॥ अत एकान्तभावेन जगतां पतिरच्युतः । उपासनीयः पुरुषैः स हि ज्ञानं प्रयच्छति ॥ ३७॥ अनाद्यविद्याप्रच्छन्नबोधानां प्राणिनामिह । गोविन्दभजनादन्यच्छरणं नास्ति किञ्चन ॥ ३८॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥३९॥ १ आ इ पुस्तकयोरस्य श्लोकस्य स्थाने 'अनाद्यविद्यासुप्तोऽयं प्रबोधं याति वै
यदा। तदात्मानमजं ज्ञात्वा सर्वबन्धात्प्रमुच्यते॥' इति श्लोकः प्रागासीद्यः पश्चादुपरितनपाठवच्छ्लोकेन निरस्तो दृश्यते.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140