Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
शास्त्रतत्त्वविनिर्णयः [अध्यायः ६ उ. स्वप्नीयदुःखं चौर्यं च तदण्डादिकमेव च । सत्यं स्वप्नगदृष्टया तु जाग्रदृष्टया मृषैव तत्॥ ५० ॥ जीवदृष्टया तथा बन्धो धर्माधर्मों सुखासुखे। ब्रह्मदृष्टया तु तत्सर्वं जीवेन सहितं मृषा ॥५१॥ स्वप्ने दुःखं यथा प्राप्त किल्बिषं वा कृतं बहु । सर्वस्य तस्य मिथ्यात्वात् पुमांस्तेन न लिप्यते॥ ५२ ॥ तथा जीवकृतैर्देषैिः सुखैदुःखैश्च तद्गतः । तेषां स्वदृष्टया मिथ्यात्वान्नेश्वरोऽण्वपि लिप्यते॥ ५३ ॥ जीवस्तु सुखदुःखादि धर्माधर्मी तथार्हति । मृषापि सद्यथा स्वप्ने सुखदुःखादि भुज्यते ॥ ५४॥ स्वप्नेऽपराधं कुर्वाणः परेषां ताड्यते च तैः । दुःखं च तस्मादाप्नोति मिथ्यात्वेऽप्यखिलस्य च ॥ ५५ ॥ तथात्मभावं देहादावध्यस्यात्मनि देहताम् । अविवेकाचिदचितोर्ममाहमिति मन्यते
॥५६॥ अनाद्यविद्यया त्वेवं जीवो मोहमुपागतः । धर्माधों सुखं दुःखमा प्रबोधाद्भजत्यसौ ॥५७ ॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमात्मानं बुध्यते तदा ॥५८ ॥ १ अत्रापि आ इ पुस्तकयोः "अनाद्यविद्यासुप्तोऽयं प्रबोधं याति वै यदा । तदात्मानमज ज्ञात्वा सर्वब धात्प्रमुच्यते ॥” इति श्लोकः प्राग्लिखितः पश्चादुपारतनश्लाकन निरस्तश्च दृश्यते.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140