Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 73
________________ २२ शास्त्रतत्त्वविनिर्णयः अध्यायः २ भवता किल वक्तव्यं यद् दुःखं पशुषु स्थितम् । तत्कस्य हतोगशोऽपि दुःखार्थं किमसृष्ट तान् ॥१६४॥ अहो बतारमदादीनामपि तदुःखदर्शने । कृपया द्रवते चित्तं दयालोरपि किं न हि ॥१६५॥ किं च व्याघ्रोरगमुखान्विश्वोपप्लवकारिणः । अकस्मात्म्वेच्छया कुर्वन्भगवान् व्यसनी भवेत् ॥१६६॥ एवं नृणां विशुद्धयर्थं खष्टो दण्डं गृहीतवान । इत्येतदपि युष्माकं न मन्ये साधु भाषितम् ॥१६७॥ अन्यस्य दण्डग्रहणादन्य एव च शुध्यति । इति न्यायपथापेतं न ह्येतन्न्यायरक्षणम् ॥१६८॥ अपराधं तु यः कुर्यात्स एवार्हति शासनम् । न्यायरूपमिदं प्राहुरन्यस्त्वन्याय ईरितः ॥१६९॥ अथ न्यायमतिक्रम्य यदि खष्टः कृपावशात । नन् शुडान्कुरुते तर्हि तस्य दण्डग्रहो वृथा ॥१७॥ 'किं च विश्वासमात्रेण खुष्ट चेत्स्यादघक्षयः । तदाहोरतयः कामं कुर्युः पापानि मानवः ॥१७१॥ पापवर्जनसंयुक्तो विश्वासश्चेदपेक्ष्यते तदसाध्यं यतः कोऽपि नरो नास्त्यघवर्जितः ॥१७२॥ अथानुतापसहितो विश्वासोऽपेक्ष्यते यदि ।। अलं तर्झनुतापेन किं विश्वासप्रयोजनम ॥१७३॥ १ आ पुस्तके एतदादि श्लोकषट्कं पश्चिमशोधरूपेण विहितं दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140