Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः ६ पू.
व्यापको हि स्मृतो देवो निर्लेपश्च वियद्यथा। तबुद्ध्या पूज्यते यत्र तत्र रवीकुरुतेऽर्चनम् ॥११८॥ किं त्वाज्ञा तस्य यत्रास्ति तत्रैवासौ समर्च्यते । यतः शास्त्रं प्रमाणं नः कार्याकार्यव्यवस्थितौ ॥११९॥ अथ विष्णुस्तु वेदेषु तुल्यभाषायुतेष्वपि । ईशत्वेनैव कथितो नात्र कार्या विचारणा ॥१२॥ तथा हि विष्णुरूपत्वं यज्ञानां कथ्यते श्रुतौ । ततश्च सर्वयज्ञानां तत्परत्वं प्रतीयते ॥१२१॥ किं च प्राप्यं मुमुक्षूणां वैष्णवं पदमुच्यते । वेदेषु तुल्यभाषेषु संशयो नेह कश्चन ॥१२२॥ तमेव परमात्मानं नानारूपैस्तथा गुणैः । तत्तद्रुच्यनुसारेण जगुः पौराणिकादयः ॥१२३॥ रजःसत्त्वतमोरूपैः सृष्टिस्थित्यन्तहेतुभिः । गुणैर्जगुः परात्मानं ब्रह्मविष्णुशिवात्मकम् ॥१२४॥ वस्तुतस्तु न चोपाधेः संबन्धः परमेश्वरे । इत्यादि यत्तु सकलं मया प्राक् तन्निरूपितम् ॥१२५॥ यथा हि स्फटिको भाति नानारूप उपाधिभिः। स्वयं विकाररहितस्तथेश इति मन्यताम् ॥१२६॥ प्रकृतेस्त्रिगुणैर्भेदमभिन्नस्य प्रकल्प्य हि । अधिकारानुरोधेन वर्णयामासुरीश्वरम् ॥१२७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140