Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 107
________________ ५६ शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ पृ. भवतामपि नैवासौ नियमोऽस्ति विनिश्चितः । कदाचिन्नैव कर्तव्यमीश्वरान्यस्य पूजनम् ॥ ९८ ॥ क्रियते हि नृपादीनां धनाद्यर्थमुपासना | सत्त्वशुद्धयादिसिद्ध्यर्थं पूज्यन्ते देवतास्तथा ॥ ९९॥ गङ्गास्नानादिका धर्मास्तीर्थयात्रादिकाश्च ये नृणामावृतबोधानां सत्त्वशुद्ध्यर्थमेव ते ॥१००॥ यतो ह्यशुद्धसत्त्वानां शुद्धोऽप्यर्थो न रोचते । सत्रशुद्धिस्ततः पुंसामस्ति मुक्त्युपयोगिनी ॥ १०१ ॥ यथार्थमेव तत्सर्वं यतः शास्त्रेण बोधितम् । धर्माधर्मगतिः सर्वा शास्त्रादेव हि बुध्यते ॥१०२॥ या च वेदे कर्मकाण्डे वह्निवाय्वादिसंस्तुतिः । ज्ञेया सा नेश्वराज्ञानाद्भागः कर्मपरो हि सः ॥१०३॥ ह्युपनिषद्भागे परमेश्वरवर्णने 1 वह्नयादेः कर्मकारित्वमीशभीत्या निरूप्यते ॥ १०४ ॥ न तस्मादीश्वराज्ञानं श्रुतावारोप्यतां कचित् । वह्नयादीनां सेवकत्वमीश्वरस्य यतो जगौ ॥१०५॥ किं च केवलकर्मिभ्य ईश्वरज्ञानिनः श्रुतौ । उत्कृष्टत्वेन वर्ण्यन्ते साक्षादीश्वरपूजकाः ॥ १०६॥ किं चानित्यफलत्वं च वदन्ती सर्वकर्मणाम् । ईशज्ञानादेव मुक्तिरिति प्राह श्रुतिः स्वयम् ॥ १०७॥ तथा www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140