Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 113
________________ शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ फू. तस्माद् व्यसनितैवेशे ह्यशक्तिर्वा प्रकल्पिता। भवदीये मत इति सुव्यक्तं प्रतिभाति नः ॥१५६॥ प्रवृत्तावेव जीवानां निरुद्धायां तु पाप्मनि । कथं कुर्युस्ततः पापं दुःखं वा प्राप्नुयुः कथम् ॥१५७॥ न चैतदकरोदीशः. सर्वशक्तियुतोऽपि सन् । तस्मादीशे भवेत्सिडा गौरवाप्रतिभाप्युत ॥१५८॥ कष्टं यदसृजज्जीवान् धर्मकप्राप्यमङ्गलान् । पापात्त बहुदुःखानिनिवर्त्यप्रवृत्तिकान् ॥१५९॥ कथं नु दुःखभाजः स्युः सृज्येरन्नैव ते यदि । प्रक्षालनादि पङ्करय दूरादस्पर्शनं वरम् ॥१६॥ अनाहतानन्तशक्तावपारकरुणानिधौ । प्राणिनामिच्छति श्रेयः साक्षाजाग्रत्यपीश्वरे ॥१६॥ जनान्वञ्चयतीशरय कथं विगतसाध्वसः । पापः पिशाचकः कश्चित् पातकेषु प्रवर्तयन् ॥१६२॥ ईशाशयं न जानीमो वयमित्युच्यते यदि। तदेवोत्तरमस्माकमपि तत्र बुध्यताम् ॥१६३॥ तस्मान्न शङ्कयतां जातु किञ्चिदीश्वरकर्मसु । बुद्धिर्हि तनुरस्माकं नाहतीशपरीक्षणम् ॥१६४॥ किं च या अकरोल्लीला भगवान्गोकुले हरिः। ता हि पौगण्डवयसि न तूपनयनात्परम् ॥१६५॥ १. अत आरभ्य ग्रन्थभाग: अ पुस्तकेऽपि पठ्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140