Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
६४
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः ६ पू.
केवलं तस्य तात्पर्यमीशमाहात्म्यवर्णने । न तु तत्रोच्यते मानं पृथिव्यादेस्तु तात्त्विकम् ॥१७६॥ नन्वतात्त्विकमर्थं चेद्वक्ति शास्त्रं तदैश्वरम् । कथं स्यादिति चेदत्र प्रोच्यते तन्निशामय ॥१७७॥ तात्पर्येण पृथिव्यादेर्यदि मानं विवक्षितम् । पुराणानां भवेत्तर्हि स्यादोषो भवदीरितः ॥१७८! तत्तु नास्त्येव किं त्वेषां माहात्यं केवलं विभोः । वक्तव्यमस्ति बहुधोपासनार्थं विराट्तनोः ॥१७९॥ यथैष लक्षमुद्रावान्धनिकोऽस्तीति भाषिणम् । न मिथ्यावादिनं प्राहुर्धनिनो धनवर्णने ॥१८॥ न हि तथ्यैव विज्ञाता जनैस्तल्लक्षशालिता। अतात्पर्यात्तु संख्यायास्तद्वचो नास्ति दोषभाक् ॥१८॥ तथैव देवमाहात्म्यवर्णनैकपरेऽपि च । दोषः पुराणसंदोहे न विचारेण लक्ष्यते ॥१८॥ अत एव पुराणानां वैमत्येऽपि परस्परम् । बहुधेश्वरमाहात्म्यं दोषो वर्णयतां न हि ॥१८३॥ न तावता तु सिद्धान्ताज्ञानं तेषां प्रकल्प्यताम्। विषयाः सर्वशास्त्राणां दृश्यन्ते पञ्चलक्षणे ॥१८४॥ भवतां च मतेऽप्यस्ति शास्त्रविद्याविपर्ययः । शास्त्रे तु भानोविद्यायां पृथिव्या गतिरिष्यते ॥१८५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140