SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ६४ शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ पू. केवलं तस्य तात्पर्यमीशमाहात्म्यवर्णने । न तु तत्रोच्यते मानं पृथिव्यादेस्तु तात्त्विकम् ॥१७६॥ नन्वतात्त्विकमर्थं चेद्वक्ति शास्त्रं तदैश्वरम् । कथं स्यादिति चेदत्र प्रोच्यते तन्निशामय ॥१७७॥ तात्पर्येण पृथिव्यादेर्यदि मानं विवक्षितम् । पुराणानां भवेत्तर्हि स्यादोषो भवदीरितः ॥१७८! तत्तु नास्त्येव किं त्वेषां माहात्यं केवलं विभोः । वक्तव्यमस्ति बहुधोपासनार्थं विराट्तनोः ॥१७९॥ यथैष लक्षमुद्रावान्धनिकोऽस्तीति भाषिणम् । न मिथ्यावादिनं प्राहुर्धनिनो धनवर्णने ॥१८॥ न हि तथ्यैव विज्ञाता जनैस्तल्लक्षशालिता। अतात्पर्यात्तु संख्यायास्तद्वचो नास्ति दोषभाक् ॥१८॥ तथैव देवमाहात्म्यवर्णनैकपरेऽपि च । दोषः पुराणसंदोहे न विचारेण लक्ष्यते ॥१८॥ अत एव पुराणानां वैमत्येऽपि परस्परम् । बहुधेश्वरमाहात्म्यं दोषो वर्णयतां न हि ॥१८३॥ न तावता तु सिद्धान्ताज्ञानं तेषां प्रकल्प्यताम्। विषयाः सर्वशास्त्राणां दृश्यन्ते पञ्चलक्षणे ॥१८४॥ भवतां च मतेऽप्यस्ति शास्त्रविद्याविपर्ययः । शास्त्रे तु भानोविद्यायां पृथिव्या गतिरिष्यते ॥१८५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy