SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ शास्त्रतत्त्वविनिर्णयः अनन्तरं तूपनीतेर्विद्याग्रहणपूर्वकम् 1 धर्म एव हि कृष्णेन कृतः शास्त्रेषु दृश्यते ॥ १६६ ॥ तथैवाहापि गीतासु भगवानर्जुनं प्रति । आप्तकामोऽपि धर्मस्य स्थित्यै कुर्वे किया इति ॥१६७॥ विष्णोरंशावतारत्वं यत्कृष्णस्य त्वभाणिषुः । नासौ विष्णुपुराणादेरभिप्रायेोऽस्ति सर्वथा ॥१६८॥ तत्र हि श्रीहरिः साक्षाद्ब्रह्मत्वेन निरूपितः । तस्मात्तदनुरोधेनाभिप्रायस्तस्य वर्ण्यताम् ॥१६९॥ उपक्रमोपसंहाराद्यविरोधेन सिध्यति 1 अध्यायः ६ पू ] ६३ यः स शास्त्राशयः प्रोक्तो मीमांसान्यायचिन्तकैः ॥ १७० ॥ तस्माद्वैष्णवकेशाभ्यां जनुषी रामकृष्णयोः । प्रोक्ते रेतोविकारत्वाभावबोधाय वै तयोः ॥१७१॥ अंशेनावतरद्विष्णुरिति यच्चापि दृश्यते । तदप्यैच्छिकमूर्त्यासौ बभूवेत्यर्थकं मतम् ॥ १७२॥ तथा हि व्यापको देवो देवक्या जठरे कथम् | स्थास्यतीत्याशयच्छित्त्यायंशेनेति समीरितम् ॥१७३॥ तथा च व्यापकोऽप्येष ऐच्छिकेन स्ववर्ष्मणा । परिच्छिन्नेन भगवान् संबभूवेति कथ्यते ॥१७४॥ अथाकाशपृथिव्यादेर्मानं यत्पञ्चलक्षणे 1 प्रोच्यते तदुपासार्थं विराडूपे परात्मनः ॥१७५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy