SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अध्यायः ६ पू. ] शास्त्रतत्त्वविनिर्णयः ततश्च भवतां पूर्वेऽप्यज्ञाः शास्त्रकृतोऽभवन् । पश्चात् सुबुद्धयो जाता इति शङका भवेन्न किम् ॥ १८६ ॥ अथ शास्त्रेषु विहिता यास्तु विप्रादिजातयः । उच्यते तासु दोषश्चेदिदमत्राभिदध्महे ॥ १८७॥ पूर्वजन्मकृतैः पुण्यपापैरुत्तरजन्मनि 1 नान|फलानि भुज्यन्ते प्राणिभिः सकलैरपि ॥ १८८ ॥ केचित्तु नेत्रविकला बधिराः पङ्गवोऽपरे । केचित्सुरूप बलिनो धनिनो बुद्धिशालिनः ॥ १८९ ॥ केचिद्विवेकिनः शान्ताः केचिन्मूढा अमर्षिणः । एवं हि दृश्यते नानाविधः कर्मफलोदयः ॥१९०॥ तथैव कर्मणा प्राचा ब्राह्मणाद्याश्च जातयः । लभ्यन्ते प्राणिभिस्त्वेतच्छास्त्रदृष्टं न चान्यथा ॥ १९९ ॥ शास्त्रं हि दृष्टिरस्माकं तेनादृष्टं समीक्ष्यते । तच्च युक्त्याभिसंपन्नं को न मन्येत बुद्धिमान् ॥१९२॥ न हि तुल्यस्वभावत्वान्न्यूनत्वाद्वा गुणैरपि । विप्राः स्युरितरैस्तुल्या न्यूना वापि कथञ्चन ॥ १९३॥ अपि भूरिगुणैर्युक्तो भृत्यस्तुल्योऽपि वा गुणैः । न जातु धरणीपालपदवीं भोक्तुमर्हति एषैव पदवी ब्राह्मी कृतपुण्यैरुपार्जिता यदादेशात्परेशस्य यज्ञादीन्कर्तुमर्हति ॥ १९४ ॥ 1 ॥ १९५॥ www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy