SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ पू. अथ याः स्मृतयः काश्चिन्निन्द्यास्त्यक्ताश्च वैदिकैः । पापिनां दण्डभोगार्थमीशस्ता उदपादयत् ॥१९६॥ अवश्यं पापिनां दण्डो भवतामपि संमतः । तथैव तेषां दण्डाथ कदध्वानः कृता इमे ॥१९७॥ तथा हि ये नराः पापा रोचयन्ते त एव ताः। बबनर्थावहाल्पेष्टदायिकर्मसु लोलुपाः ॥१९८॥ धूर्ता दोषयुताचाररता मलिनबुद्धयः । पुनः पुनर्भगवता पात्यन्ते नरकेऽशुचौ ॥१९९॥ तथा हि शास्त्रद्वारैतद्वयक्तं बोधयतीश्वरः । दुष्टानां दण्डदानार्थ स्मृतयस्ताः कृता इति ॥२०॥ अत एव हि ये पुण्यकर्माणः श्रद्धया युताः। न ताः स्मृतीस्ते मन्यन्ते संमतेशानुशासनाः॥२०१॥ तस्माच्छुद्धतमं शास्त्रं वैदिकं मङ्गलावहम् । क्षुद्रबुद्धिसमुद्भूतैर्न त्याज्यं दोषसंशयैः ॥२०२॥ इति षष्ठस्याध्यायस्य पूर्वार्धम् । १ अत उत्तरं 'समाप्तम्' इत्यधिकं त्रिष्वपि अ आ इ पुस्तकेषु. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy