SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अध्यायः ६ उ.] शास्त्रतत्त्वविनिर्णयः (उत्तरार्धम्) वेदान्तादिषु ये प्रोक्ता दोषाभासाः स्वया धिया। तेषूक्तान्येव भूयांसि समाधानानि सूरिभिः ॥ १ ॥ नृणामत्यल्पबुद्धित्वात्सूक्ष्मगम्भीरवस्तुनि । भवन्ति संशयाः पुंसां तद्धि तस्यास्ति भूषणम् ॥ २ ॥ किं तु नानाविधाक्षेपसमाधानादिलेखने । इहापद्येत सर्वेषां ग्रन्थानामपि लेखनम् ॥ ३ ॥ उपादानत्वमीशस्य तदभेदं जगत्यपि ब्रुवन्वेदान्तसिद्धान्तो नेशे वदति दूषणम् ॥ ४ ॥ पत्रे कज्जलरेखायाः पुमाकारेण लेखने पत्रं च तदवच्छिन्नं पुमाकारेण भासते ॥ ५ ॥ प्रकृतेर्नामरूपाभ्यां स्वसत्तानुगमेन च । जीवकर्मवशादीशो जगद्वदवभासते रेखैव पुंव्यवहृतौ केवलं कारणं मता । अधिष्ठानतया पत्रं तत्रोपकुरुते यथा ॥ ७ ॥ जगद्वयवहृतौ हेतू प्राकृते नामरूपके । अधिष्ठानतया ब्रह्म तस्योपादानमुच्यते ॥ ८ ॥ या तावत्पुरुषे सत्ता पत्रस्यैव हि सा स्मृता। रेखाकृतं तु तद्रूपं यत्र दोषस्य संभवः सत्ता चैतन्यमानन्दस्त्रितयं ब्राह्ममुच्यते प्राकृते नामरूपे तु सर्वे दोषास्तदाश्रयाः ॥१०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy