SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ शास्त्रतत्त्वविनिर्णयः [अध्यायः ६ उ. न सत्तायां न चानन्दे ज्ञाने वा दोषसंभवः। दोषा जगति यावन्तो नामरूपगता हि ते ॥ ११ ॥ रेखालेखनदोषेण पुमानगेन केनचित् । दुष्टोऽपि च न तत्पत्रं दुष्टतां लभते यथा ॥ १२ ॥ तथा सच्चिन्मयवपुर्विश्वाधिष्ठान एव सन् । नामरूपगतैर्दोषैर्नेश्वरोऽण्वपि लिप्यते ॥१३ ॥ न तद्विक्रियते पत्रं भासमानं च पुंस्तया । रेखया किं तु पुरुषव्यवहारास्पदीकृतम् ॥ १४ ॥ तथा जीवादृष्टवशात्प्राकृतैर्नामरूपकैः । जगद्वद्भासमानेऽपि नेशे सूक्ष्मापि विक्रिया ॥ १५ ॥ पादोऽस्य सर्वभूतानि पादत्रयमथामृतम् । अस्यैकांशो जीबवर्ग इति शास्त्रेषु गीयते ॥ १६ ॥ निरंशे वस्तुतो ब्रह्मण्यौपाधिक्यंशकल्पना । निरंशेऽपि यथा व्योम्नि घटाकाशादिकल्पना॥ १७ ॥ न तावत्पुरुषः पत्राद्भिद्यतेऽथापि पत्रकम् । न दुष्टं नापि विकृतं स्वरूपान्नाणु हीयते ॥ १८ ॥ तथेशात्स्वाश्रयाद्विश्वं यद्यपीदं न भिद्यते । न दुष्टो नापि विकृतः स्वरूपादच्युतो हरिः ॥ १९ ॥ यथा रेखागता दोषा दूषयन्तोऽपि पूरुषम् । नोत्पादयन्ति विकृति पत्रे रूपविवर्जिते ॥२०॥ १ ‘सर्वभूपानि'-आ इ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy