Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः ६ पू.
अथ याः स्मृतयः काश्चिन्निन्द्यास्त्यक्ताश्च वैदिकैः । पापिनां दण्डभोगार्थमीशस्ता उदपादयत् ॥१९६॥ अवश्यं पापिनां दण्डो भवतामपि संमतः । तथैव तेषां दण्डाथ कदध्वानः कृता इमे ॥१९७॥ तथा हि ये नराः पापा रोचयन्ते त एव ताः। बबनर्थावहाल्पेष्टदायिकर्मसु लोलुपाः ॥१९८॥ धूर्ता दोषयुताचाररता मलिनबुद्धयः । पुनः पुनर्भगवता पात्यन्ते नरकेऽशुचौ ॥१९९॥ तथा हि शास्त्रद्वारैतद्वयक्तं बोधयतीश्वरः । दुष्टानां दण्डदानार्थ स्मृतयस्ताः कृता इति ॥२०॥ अत एव हि ये पुण्यकर्माणः श्रद्धया युताः। न ताः स्मृतीस्ते मन्यन्ते संमतेशानुशासनाः॥२०१॥ तस्माच्छुद्धतमं शास्त्रं वैदिकं मङ्गलावहम् । क्षुद्रबुद्धिसमुद्भूतैर्न त्याज्यं दोषसंशयैः ॥२०२॥
इति षष्ठस्याध्यायस्य पूर्वार्धम् । १ अत उत्तरं 'समाप्तम्' इत्यधिकं त्रिष्वपि अ आ इ पुस्तकेषु.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140