Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
अध्यायः ६ पू. ]
शास्त्रतत्त्वविनिर्णयः
५७
ननु नाकसदामिन्द्रप्रभृतीनां कृतांहसाम् । पूजा श्रुतिषु संदिष्टा कथं नामोपपद्यते ॥१०८॥ उच्यते-- करणाद् भूरिपुण्यानां महत्त्वं ते प्रपेदिरे । दातारश्चेष्टकामानां पूजनात्पुण्यकारिणः ॥१०९॥ ततो जगत्प्रवृत्त्यादिसत्त्वशुद्ध्यादिसिद्धये । यज्ञादिकर्मभिः पूजा त्रिदशानां विधीयते ॥११॥ अथ यत्र तु देवानां पातकाचरणं श्रुतम् । शुद्धिश्च श्रूयते तत्र तदंहोदण्डदर्शनात् ॥१११॥ को नाम विद्यते लोके देही पापविवर्जितः । किं तुशुध्यति दण्डेन न्यायोऽसौ परमात्मनः॥११२॥ तथा ह्यहल्यागामित्वं श्रुतं यत्र बिडौजसः । तत्रैव शापात्तद्भर्तुः श्रुतो दण्डस्तदंहसः ॥११३॥ ततः शुद्धात्मनस्तस्य पुण्यासादिततेजसः । शतक्रतोर्न दोषाय सपर्येशानुशासनात् ॥११४॥ धमैराप्ताधिकारास्ते श्रेष्ठा दिविषदो यतः । ईशप्रियाश्च ते तस्माद्युक्ता तेषामपि स्तुतिः ॥११५॥ तस्मात्कर्मप्रकरणे स्तुतेऽपि मरुदादिके । नाज्ञानं कल्पनीयं हि परमेशस्य तावता ॥११६॥ ईशप्रतीकरूपेण या तु सूर्याधुपासना । मूांदेरपि संदिष्टा सेशभावनयैव हि ॥११७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140