________________
५६
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः ६ पृ.
भवतामपि नैवासौ नियमोऽस्ति विनिश्चितः । कदाचिन्नैव कर्तव्यमीश्वरान्यस्य पूजनम् ॥ ९८ ॥ क्रियते हि नृपादीनां धनाद्यर्थमुपासना | सत्त्वशुद्धयादिसिद्ध्यर्थं पूज्यन्ते देवतास्तथा ॥ ९९॥ गङ्गास्नानादिका धर्मास्तीर्थयात्रादिकाश्च ये नृणामावृतबोधानां सत्त्वशुद्ध्यर्थमेव ते ॥१००॥ यतो ह्यशुद्धसत्त्वानां शुद्धोऽप्यर्थो न रोचते । सत्रशुद्धिस्ततः पुंसामस्ति मुक्त्युपयोगिनी ॥ १०१ ॥ यथार्थमेव तत्सर्वं यतः शास्त्रेण बोधितम् । धर्माधर्मगतिः सर्वा शास्त्रादेव हि बुध्यते ॥१०२॥ या च वेदे कर्मकाण्डे वह्निवाय्वादिसंस्तुतिः । ज्ञेया सा नेश्वराज्ञानाद्भागः कर्मपरो हि सः ॥१०३॥ ह्युपनिषद्भागे परमेश्वरवर्णने 1 वह्नयादेः कर्मकारित्वमीशभीत्या निरूप्यते ॥ १०४ ॥ न तस्मादीश्वराज्ञानं श्रुतावारोप्यतां कचित् । वह्नयादीनां सेवकत्वमीश्वरस्य यतो जगौ ॥१०५॥ किं च केवलकर्मिभ्य ईश्वरज्ञानिनः श्रुतौ । उत्कृष्टत्वेन वर्ण्यन्ते साक्षादीश्वरपूजकाः ॥ १०६॥ किं चानित्यफलत्वं च वदन्ती सर्वकर्मणाम् । ईशज्ञानादेव मुक्तिरिति प्राह श्रुतिः स्वयम् ॥ १०७॥
तथा
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat