________________
अध्यायः ६ पू.] शास्त्रतत्त्वविनिर्णयः
अभ्यर्च्य परमात्मानं ब्राह्मणः स्खेन कर्मणा । इत्येवं बहुधा दृष्टं गीताशास्त्रादिषूदितम् ॥ ८८ ॥ किं विन्द्रमुखदेवानां तुष्टः सत्कर्मभिर्विभुः । द्वारत्वमात्मनस्तेभ्यः पूज्यत्वमपि दत्तवान् ॥ ८९ ॥ अग्नौ प्रत्ताहुतीः सर्वा इन्द्राद्या एव भुञ्जते। तद्वारा प्रीयते किं तु यज्ञात्मा विष्णुरेव हि ॥ ९० ॥ यदा तत्तत्कर्मफलं कर्मिभ्यो दातुमिच्छति । तद्द्वारैव ददातीशो भृत्यद्वारेव भूपतिः ॥ ९१ ॥ यस्य यस्य यथा कर्म न्याय्यं तस्य तथा फलम्। इति सत्कर्मकारिभ्यो देवेभ्यः पूज्यतां ददौ ॥ १२ ॥ यतश्च पूज्यतां न्यायादेवेभ्यो दत्तवान्विभुः। ततः सर्वैश्व पूज्यास्ते प्रीत्यर्थ परमात्मनः ॥ ९३ ॥ ईशाज्ञापालनं धर्मस्तदेवेशस्य पूजनम् । विपरीतस्त्वधर्मः स्यादपराधः स एव हि ॥ ९४ ॥ जगच्चक्रप्रवृत्त्यर्थमाज्ञप्ता ब्राह्मणा यतः । ततोऽपीशाज्ञया कार्या अवश्यं ब्राह्मणैः क्रियाः ॥९५॥ यज्ञायत्तं जगच्चक्रमत ईशोऽसृजद् द्विजान् । अतस्तत्प्रीतये कार्य कर्मावश्यं द्विजातिभिः ॥ ९६ ॥ किं च स्वकर्मभिः सत्त्वशुद्धिः संजायते यतः । ततश्च ज्ञानयोग्यत्वं कर्मावश्यकताप्यतः ॥ ९७ ॥ १. आ इ पुस्तकयोः ' यज्ञेशो भगवान् हरिः' इति पाठः प्रागासीद्यः पश्चात्संशोध्य अ पुस्तकवाद्विहितो दृश्यते.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com