SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ पू. व्यापको हि स्मृतो देवो निर्लेपश्च वियद्यथा। तबुद्ध्या पूज्यते यत्र तत्र रवीकुरुतेऽर्चनम् ॥११८॥ किं त्वाज्ञा तस्य यत्रास्ति तत्रैवासौ समर्च्यते । यतः शास्त्रं प्रमाणं नः कार्याकार्यव्यवस्थितौ ॥११९॥ अथ विष्णुस्तु वेदेषु तुल्यभाषायुतेष्वपि । ईशत्वेनैव कथितो नात्र कार्या विचारणा ॥१२॥ तथा हि विष्णुरूपत्वं यज्ञानां कथ्यते श्रुतौ । ततश्च सर्वयज्ञानां तत्परत्वं प्रतीयते ॥१२१॥ किं च प्राप्यं मुमुक्षूणां वैष्णवं पदमुच्यते । वेदेषु तुल्यभाषेषु संशयो नेह कश्चन ॥१२२॥ तमेव परमात्मानं नानारूपैस्तथा गुणैः । तत्तद्रुच्यनुसारेण जगुः पौराणिकादयः ॥१२३॥ रजःसत्त्वतमोरूपैः सृष्टिस्थित्यन्तहेतुभिः । गुणैर्जगुः परात्मानं ब्रह्मविष्णुशिवात्मकम् ॥१२४॥ वस्तुतस्तु न चोपाधेः संबन्धः परमेश्वरे । इत्यादि यत्तु सकलं मया प्राक् तन्निरूपितम् ॥१२५॥ यथा हि स्फटिको भाति नानारूप उपाधिभिः। स्वयं विकाररहितस्तथेश इति मन्यताम् ॥१२६॥ प्रकृतेस्त्रिगुणैर्भेदमभिन्नस्य प्रकल्प्य हि । अधिकारानुरोधेन वर्णयामासुरीश्वरम् ॥१२७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy