________________
५९
अध्यायः ६ पू.] शास्त्रतत्त्वविनिर्णयः
न तावता परेशस्य न्यूनत्वं मन्यतां वचित्। सृष्टिस्थित्यन्तकर्तृत्वं महिम्ने विकल्प्यते ॥१२८॥ यद्यपीदं तु वेदेषु नातिस्पष्टतयोच्यते । तथापि मुनिभिर्देवचोदितैर्विशदीकृतम् ॥१२९॥ वेदेभ्यो हि स्फुटा भाषा भारतादिषु दृश्यते ।। किञ्चिद् भिन्ना पुराणेभ्यःस्मृत्यादिष्वपि तादृशी॥१३०॥ तेभ्योऽतिविशदा वाणी पुराणेष्वनुलक्ष्यते । उत्तरोत्तरमन्दानां हितार्थ ह्युत्तरोत्तरम् ॥१३१॥ अपि चैतेषु सर्वेषु मिथो नाम्नां प्रकीर्तनात् । अप्रामाण्यं न कस्यापि शङ्कितुं शक्यमञ्जसा ॥१३२॥ किंतु धूर्तेः पुराणादौ स्वकाव्यानि क्वचित्वचित् । निवेश्यन्तेऽभिमानेन मतादेरिति शुश्रुम ॥१३३॥ न येषु लक्ष्यते ह्यार्षी प्रगल्भा वाक्सुबुद्धिभिः। बयस्तेष्वेव दृश्यन्ते वाचोऽहङ्कारयोनयः ॥१३४॥ तथापि चौरैराक्रान्तो न साधुरपि दूष्यते । इत्यादिकं तु सकलं आगेवाहमिहोक्तवान् ॥१३५॥ अथ ये कृष्णलीलासु दोषमाहुः स्वया धिया। न तत्समुचितं तेषामतिस्वल्पधियां किल ॥१३६॥ १. 'ह्यवकल्पते' इति पाठस्त्रिष्वपि अ आ इ पुस्तकेषु. २. अ पुस्तके अत आरभ्य ३१-३२ अङ्कात्मकं पत्रद्वयं नष्टम्.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com