SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ६० शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ पू. क्वेश्वरोऽनन्तदुर्ज्ञेयलीलश्चानेकहेतुवित् 1 क्व जीवाः क्षुद्रधिषणा अहो साहसमस्त्यदः ॥१३७॥ सर्वाः स्त्रियश्च पुरुषा यदीया एव केवलम् । तस्मिंस्तु व्यभिचारादीन् शङ्कन्ते यत्तदद्भुतम् ॥१३८॥ गोपीभिः प्रार्थितोऽरंस्त तासु किं वान्यकारणात् । इत्यादि धातुः को वेद लीलानां कारणं तु यत् ॥ १३९॥ उत्तेजिकास्ति तल्लीला पापस्येत्यपि वाग्वृथा । न क्वाप्युत्तेजनं दृष्टं पापानामीशलीलया ॥१४०॥ प्रत्युतेश्वरलीलासु ये रताश्चित्तपूर्वकम् । तेषां विरक्तिः संसारात्पापादपि च दृश्यते ॥१४१॥ इमं पश्यत लीलानां प्रभावं परमात्मनः । यासु प्रेमोद्भवे पुंसो जायते शुद्धमानसम् ॥ १४२॥ शृङ्गारादिरसैः पूर्णा अपि लीलाः परात्मनः । जनयन्ति मनःशान्ति 'किं तच्चित्रं जगद्गुरौ ॥ १४३॥ इदमेवैश्वरं कृत्यं यत्सन्मार्गे प्रवर्तनम् । न तस्य धर्मैराप्तव्यं हेयं वाप्यस्त्यधर्मतः ॥ १४४॥ त्यक्तसर्वार्थरागाभ्यो गोपीभ्यो दिशता शिवम् | ईशैकतानतायास्तु महिमा संप्रदर्शितः ॥ १४५॥ १. ' किं तच्चित्रमधोक्षजे ' - आ इ पुस्तकेऽपि प्रागयमेव पाठ आसीद्यः पश्चात्संशोध्य 'किं तच्चित्रं जगद्गुरौ' इति विहितः . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy