________________
अध्यायः ६ पू.]
शास्त्रतत्त्वविनिर्णयः
अर्जुनायोपसन्नाय विश्वरूपमदर्शयत् । कृष्णाया: पालयल्लज्जां सभां वस्त्रैरपूरयत् ॥१४६॥ प्रेम्णाथ कृष्णयाहूतः शाकपत्रेण तर्पितः । दुर्वाप्तसः सशिष्यस्यानाशयद्गर्वपर्वतम् ॥१४७॥ प्रगायतां स्ववीर्याणि स्वान्त आविर्भवन् हरिः। अपाकरोति मालिन्यं मनःशान्ति च यच्छति ॥१४८॥ गायतां श्रद्दधानानां पावनर्भिगवत्कथाः । शुद्धिमेति यथा चित्तं तत्सतामानुभाविकम् ॥१४९॥ यदुनन्दन-गोविन्द-राम-कृष्णेति वल्गताम्। यदुद्भवति नः प्रेम किं ब्रमो भवतां पुरः ॥१५॥ धृत्वावतारं स्वीयाभि-लाभिभगवाञ्जनान् । कुरुते साधुहृदयान् किमन्यद्धि करोतु सः ॥१५॥ नास्माकमधिकारोऽस्ति चरितेषु परात्मनः । दोषानल्पधिया धातुं को वेदास्याशयं परम् ॥१५२॥ अल्पदृष्टिकृतैर्दोषाभासैश्चेद् दूष्यते विभुः । किं भवत्संमतेशेऽपि दोषाशङ्का न जायते ॥१५३॥ तथा हि दुःखफलके प्रवृत्तान्पातके नरान् । हितेच्छुःशक्तियुक्तोऽपि निवर्तयति किं न हि॥१५४॥ न धावत्यर्भके नातः शङ्कमानोऽपि तत्क्षतिम् । अपेक्षते तत्पतनं किं त्वेनं निरुणयसो ॥१५५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com