________________
२२
शास्त्रतत्त्वविनिर्णयः
अध्यायः २
भवता किल वक्तव्यं यद् दुःखं पशुषु स्थितम् । तत्कस्य हतोगशोऽपि दुःखार्थं किमसृष्ट तान् ॥१६४॥ अहो बतारमदादीनामपि तदुःखदर्शने । कृपया द्रवते चित्तं दयालोरपि किं न हि ॥१६५॥ किं च व्याघ्रोरगमुखान्विश्वोपप्लवकारिणः । अकस्मात्म्वेच्छया कुर्वन्भगवान् व्यसनी भवेत् ॥१६६॥ एवं नृणां विशुद्धयर्थं खष्टो दण्डं गृहीतवान । इत्येतदपि युष्माकं न मन्ये साधु भाषितम् ॥१६७॥ अन्यस्य दण्डग्रहणादन्य एव च शुध्यति । इति न्यायपथापेतं न ह्येतन्न्यायरक्षणम् ॥१६८॥ अपराधं तु यः कुर्यात्स एवार्हति शासनम् । न्यायरूपमिदं प्राहुरन्यस्त्वन्याय ईरितः ॥१६९॥ अथ न्यायमतिक्रम्य यदि खष्टः कृपावशात । नन् शुडान्कुरुते तर्हि तस्य दण्डग्रहो वृथा ॥१७॥ 'किं च विश्वासमात्रेण खुष्ट चेत्स्यादघक्षयः । तदाहोरतयः कामं कुर्युः पापानि मानवः ॥१७१॥ पापवर्जनसंयुक्तो विश्वासश्चेदपेक्ष्यते तदसाध्यं यतः कोऽपि नरो नास्त्यघवर्जितः ॥१७२॥ अथानुतापसहितो विश्वासोऽपेक्ष्यते यदि ।।
अलं तर्झनुतापेन किं विश्वासप्रयोजनम ॥१७३॥ १ आ पुस्तके एतदादि श्लोकषट्कं पश्चिमशोधरूपेण विहितं दृश्यते.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com