________________
अध्यायः २
शास्त्रतत्त्वविनिर्णयः अथास्ति चेन्मनुष्याणां मृतकर्ध्वमपि स्थितिः। पशूनामपि तस्तुि ते पीशस्यैव जन्तवः ॥१५५॥ यथैव सुखभोगेच्छायोग्यता चारित मानवे । पशूनामपि तुल्या तान् सृष्ट्वा दद्यान्न किं सुखम् ॥१५६॥ नन्वीश्वरीयविज्ञानं पशुभ्यो मनुजेऽधिकम् । इति चेत्तावतशस्य को विशेषः प्रजायते ॥१५७॥ दयालुराप्तकामश्व तुल्यदृष्टिरपीश्वरः । स्वसृष्टेभ्यः सुखं दातुं स्वज्ञानं किमपेक्षते ॥१५८॥ नूनं व्यवस्थया नणां प्रवृत्त्यर्थं स्वया धिया । खाष्टः प्रकल्पितः स्वर्गो नरकश्च तथेश्वरः ॥१५९॥ पशोः प्रयोजनाभावान्न गतिलिखिता कचित् । न तु शास्त्रं प्रमाणं तदित्यस्माजायते मतिः ॥१६॥ हन्तेशनेच्छया सृष्टा यद्येत पशवा नृभिः । नियोजिताः स्वयानादौ क्षतस्कन्धाः क्षुधातुगः॥१६१॥ तृषार्ता ऊष्मणा तप्ताः कचिच्छीतादिता अपि । भुञ्जते केवलं दुःखं कष्टं तींशचेष्टितम् ॥१६२॥ वयं तु प्राग्भवांहोभिः पशुतां यान्ति जन्तवः। भुक्त्वा कर्मफलं तस्मान्मुच्यन्त इति मन्महे ॥१६३॥ १ अत आरभ्य ग्रन्थभागः आ पुस्तकेऽपि वर्तते.
२ 'तत्र'-आ. इ पुस्तऽपि 'तत्र' इति पाठः प्रागामीद्यः पश्चात्संशोध्य 'खाः ' इति अ पुस्तकवद्विहितो दृश्यते.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com