________________
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः २
युक्तं तु परमेशस्य यथा पुत्रं निजं पिता । हन्ति दोषनिवृत्त्यर्थं ददाति च सुखं ततः ॥१४५॥ तथैव जीवशिक्षार्थं दण्डं दत्वा ततः सुखम् । क्रमेण मोक्षणं चापि यद्यसो हितमिच्छति ॥१४६॥ यदि पापकृतां दण्डनिवृत्तिन कदाचन । निरर्थस्तर्हि तदण्डो लुप्ता चास्य दयालुता ॥१४७॥ अपराधः प्रभोर्येन यावान्खलु भवेत्कृतः । तावानेवास्य दण्डोऽपि शस्यते न्यायकोविदैः॥१४८॥ अल्पाधिकागसां नृणामनन्ता नरके स्थितिः । भवतीति गिरा देवः किमन्यायी न कल्पितः ॥१४९॥ एवं मनुष्यभिन्नानां गतिः काचन नेष्यते । इति ब्रुवद्भिर्मानां गतिर्वाङ्गीकृता कुतः ॥१५॥ पश्वादेर्मरणादृर्ध्वं यदि नो गतिरिष्यते । मनुष्याणामपि तदा केन दृष्टा गतिवद ॥१५॥ क्षुत्तण्मैथुननिद्रादि पशूनां मनुजैः समम् । स्वहितस्य तथा लिप्सा जिहासा स्वाहितस्य च ॥१५२॥ पक्ष्यादीनां गृहादीनि स्वकुटुम्बस्य पोषणम् । वर्षातपादिविज्ञानं तदुपायादिचिन्तनम् ॥१५३॥ भयं चैव भयस्थानं सुखस्थानं सुखं तथा । ऋते शास्त्रीयविज्ञानं जानन्ति पशवोऽखिलम् ॥१५४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com