________________
अध्यायः २]
शास्त्रतत्वविनिर्णयः
कथं नु दुःखभाजः स्युः सृज्येरन्नैव ते यदि । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥१३५॥ दुःखं हि दातुं योऽस्मभ्यमसतोऽप्युदपादयत् । कृतायामपि सेवायां स कथं नाम मोचयेत् ॥१३६॥ नूनं खाष्टः स्वबुद्ध्यैव तर्क कुर्वद्भिरीश्वरे । घटस्येव कुलालादिर्जगत्कापि कल्पितः ॥१३७॥ किंतुन व्यसनित्वाद्यान्विदुर्दोषान्समागतान। बालिशोक्तीश्च मन्यन्ते श्रद्धया केवलं सतीः ॥१३८॥ अस्मन्मते तु ये तावद्वहुपापकृतो नराः। भुक्त्वा पापफलं भूरि ते दुःखं नरकादिषु ॥१३९॥ भूयो भवान्तरे पुण्यैः सुखान्यपि च भुञ्जते । न तु कालं निरवधि केवलं दुःखभोगिनः ॥१४०॥ एवं भवेष्वनेकेषु भुञ्जन्तस्ते सुखासुखे । शुक्लधर्मोद्भवाज्ञानात्क्रमान्मुक्ति प्रयान्त्यपि ॥१४॥ यदिदं भगवत्कृत्यमस्मदीये मते स्थितम् । सदयत्वं भगवत आवेदयति पुष्कलम् ॥१४२॥ किमीशो नृहितार्थाय दण्डं पापस्य यच्छति । उताहो शत्रुभावेन भवतैतदिहोच्यताम् ॥१४३॥ तत्र तु प्रथमः पक्षा न सिध्यति भवन्मते । सदा नरकवासानां कदा नु भविता हितम् ॥१४४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com