SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ १८ शास्त्रतत्त्वविनिर्णयः [ अध्यायः २ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥१२५॥ तस्मान्मूलमनर्थस्य रागो विषयगो नृभिः । सर्वानर्थनिवृत्त्यर्थं निरोद्धव्यः प्रयत्नतः ॥ १२६ ॥ तस्माद्दिव्यपदार्थानां भोगो मोक्ष इदं वचः । बालिशानां विमोहाय तुच्छं तत्त्वविदां पुरः ॥ १२७ ॥ अहो कृतं भवच्छास्त्रे यथेशगुणवर्णनम् । निन्दैव केवलं भाति जायते विस्मयश्च नः ॥१२८॥ उत्पाद्य सुबहूञ्जीवांस्तेष्वल्पानेव मोचयन् । अन्यांस्त्यक्तभवच्छास्त्रान्नरके क्षिपतीश्वरः ॥ १२९ ॥ कालं तेऽवधिशून्यं च नरके दुःखभोगिनः । पुनर्नोद्धरणं तेषां निरयादस्ति कर्हिचित् ॥ १३० ॥ ये तावदीशसृष्टेषु स्वर्गतास्तनुर्वम् । ये पुनर्नरकावासास्तेषां सृष्टिर्निरर्थिका ॥१३१॥ तेषां सर्जनकाले किं नासीज्ज्ञानं परात्मनः । कृत्वा पापान्यमी दुःखं भोक्ष्यन्ति नरकेष्विति ॥ १३२ ॥ जानन्नवश्यभोक्तव्यं तैर्दुःखं यदि चेश्वरः । असृजद् दुःखभोगार्थं कस्तस्माद्व्यसनी परः ॥१३३॥ तेषां प्रयोजनाभावात्क्रूच्छ्रबाहुल्यदर्शनात् । अहो निरर्थिका सृष्टिः पामरा अप्यदो विदुः ॥ १३४ ॥ www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy