________________
अध्यायः २]
शास्त्रतत्त्वविनिर्णयः
स्वत्वेनाभिमतं वस्तु यदान्यस्मै प्रदीयते । ममताया निवृत्तत्वान्न तन्नाशेन खिद्यति ॥११५।। तथात्मभावं देहादावध्यस्यात्मनि देहताम् । अविवेकाचिदचितोर्ममाहमिति मन्यते ॥११६।। ततो देहाभिमानेन युक्तं दुःखित्वमात्मनः । तन्निरासान्निरासश्च दुःखस्यातीव- युज्यते ॥११७॥ क चात्मा चित्स्वभावोऽयं क देहादि जडं तयोः । वैलक्षण्यं महदिति विवेकादीक्षते यदा ॥११८॥ तदेव सर्वदुःखानि त्यक्त्वानन्दं समश्नुते । इति तावदतिस्पष्टं संशया नेह कश्चन ॥११९।। विरक्तिर्विषयेभ्यश्च मुक्तेः परमसाधनम् । वैराग्येण ह्यभिमतेर्निवृत्तिर्जायते क्रमात् ॥१२॥ विषयांस्तत्र रागं च विभुपु यता न्यधात् । तस्माद्युक्तं न वैराग्यमिति वागविचारजा ॥१२॥ सर्वासु स्त्रीषु नृषु च रतिकामुकता स्थिता । मत्वा तामीश्वरप्रत्तां किं भाव्यं पारदारिकैः ॥१२२॥ नास्मान्विहन्तुं विषयैः प्रलोभ्य परमेश्वरः । बडिशेनेव यादांसि कचित्कामयते विभुः ॥१२३।। सुरां काममयीं पीत्वा न विवेकाच्च्यवेत कः । कश्व कामांश्चिरं भुक्त्वा तृप्तः स्यामित्यवस्यति॥१२४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com