________________
१६
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः २
साहङ्कारप्रवृत्तेश्व
धर्माधर्माभिसंभवः 1 ततश्च सुखदुःखादि चक्रवत्परिवर्तते ॥१०५॥ एवं हि भ्रमतां पुंसां नानादुःखानि भुञ्जताम् । केषाञ्चित्कर्मणां योगाच्छुक्को धर्मः प्रजायते ॥ १०६॥ ततो भवति वैराग्यं विचारः प्रशमस्तथा । ततश्च ज्ञायते रूपं देहादेरात्मनोऽपि च ॥१०७॥ तस्यार्थान्निरहङ्काराः प्रवर्तन्ते ततः क्रियाः । ततश्च धर्माधर्माणामुदयो नैव जायते ॥१०८॥ वै पुमान्विशुद्धात्मा कर्मशेषस्य संक्षये । विमुक्तः सुखदुःखाभ्यां स्वस्वरूपेण तिष्ठति ॥ १०९॥ तं मोक्षं सुविचारेण मन्यन्ते शुद्धबुद्धयः । विषयाणां तूपभोगात्कुतः स्यात्सुचिरं सुखम् ॥ ११० ॥ अभिमानोद्भवं दुःखं सर्वेषामानुभाविकम् | तन्निरासात्तन्निरास इत्येतदपि निश्चितम् ॥ १११ ॥ बह्वयः सन्ति स्त्रियो लोके न तन्नाशेन खिद्यति । स्वत्वेनाभिमता या तु तन्नाशाद् दुःखमनुते ॥ ११२ ॥ सन्त्यनेकानि गेहानि न तन्नाशेन खिद्यति । स्वत्वेनाभिमतं यत्तु तन्नाशाद् दुःखमश्रुते ॥ ११३॥ अभिमानोद्भवं दुःखं तस्मात्सर्वत्र निश्चितम् । तन्निरासान्तन्निरासो यथैतदपि कथ्यते ॥११४॥
१
' त्वस्वरूपेण '- इ· २ आ पुस्तकेऽत ऊर्ध्वं त्रीणि पत्राणि नष्टानि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com