SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अध्यायः २] शास्त्रतत्वविनिर्णयः उच्यतेप्राग्भवेऽपि कृतं कर्म तेनैव तु यतः कृतम् । तस्मात्तद्वशतोऽप्यागस्कर्ता शासनमर्हति ॥९५॥ यथा क्रीडापरो बालो निमील्य स्वदृशो चलन् । अवशोऽपि पतन्गर्ते पित्रा ताड्यत एव हि ॥९६॥ किं च स्वर्गाभिधे लोके दिव्यभोगयुते स्थितिः। मुक्तिरुक्तेति सिद्धान्तो नान्तःशान्तिकरःसताम् ॥९७॥ भुञ्जतां हि सुखं पुंसां बहुकालं ततः परम् । कालेन जायते त्रास उत्सुकस्यापि तत्सुखे ॥९८॥ किं त्वत्रत्यसुखस्यासो स्वल्पकालेन जायते । कालेन बहुना तद्वदिव्यानामपि तय॑त ॥९९॥ किंचास्मिन्नपि लोके प्राक् पवित्रे पातकोज्झिते। उत्शदिते च विभुना पापावेशमनिच्छता ॥१०॥ कालेन प्राविशत्पापं स्वर्गे तन्न विशेत्कुतः । ततश्च दुःखभाजः स्युः कुतो न स्वर्गता अपि ॥१०१॥ ईशेच्छा तूभयत्रापि तुल्यैव क्षेमभावने । नृणां पापसमाचारं न चेहापि स इच्छति ॥१०२॥ तस्मादिव्यपदार्थानां भोगो मोक्ष इदं वचः । बालिशानां विमोहाय तदसत्परमार्थतः ॥१०३॥ किं तु देहाद्यहङ्कारात्सुखादेर्जायते स्पृहा । तत इष्टानिष्टयोगवियोगार्थं प्रवर्तते ॥१०४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy