________________
१४ .
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः २
निश्चितं भवतां शास्त्रं पुरुषैः स्वधिया कृतम् । नृबुद्ध्यनवगाह्यत्वाद्यत्र नोक्तं भवान्तरम् ॥८५॥ अथाकस्मात्सृजञ्जीवान् किंशुद्धान्सृजतीश्वरः। आहो दुष्टधियस्त्वाद्ये शुद्धानां दुष्टता कथम्॥८६॥ यदि वै दुष्टतामीयुः शुद्धान्तःकरणा अपि । हता व्यवस्था सकला दुष्टाः स्युः स्वर्गता अपि ॥८७॥ दोषयुक्तां यदि पुनर्नेबुद्धिं बुद्धिपूर्वकम् । सृजतीश इति ब्रूते तन्मतं दूरतस्त्यजेत् ॥८८॥ किं च भूतेन केनापि नरान्पापे प्रवर्तितान् । दीनान्परवशांश्चापि विभुर्दण्डयतीति ये ॥८९॥ वदन्ति तेऽविचारित्वमावहन्ति परात्मनि । कथं स्वहितकामानां तन्मतं स्याडितप्रदम् ॥९॥ अथ तेन नरः पापाचरणे प्रेरितोऽपि सन् । विचारेण निवर्तेत पापादिति वचो भ्रमात् ॥११॥ नासौ प्रेरयतेऽक्ष्यादीन्स हि प्रेरयते मनः । विचारश्च मनोधर्मो दुष्टे चित्ते कथं भवेत् ॥९२॥ यदौषधं रोगहरं तदेव विषदूषितम् । न गुणाय भवेत्तद्वद्विचारे दूषितं मनः ॥१३॥ ननु युष्मन्मतेऽप्येवं पूर्वजन्मक्रियावशात् । पापं प्रकुर्वतो जीवान्कथं दण्डयतीश्वरः ॥१४॥ १ अत आरभ्य ग्रन्थभागः आ पुस्तकेऽपि विद्यते.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com