SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ शास्त्रतत्त्वविनिर्णयः ज्ञानावस्थाप्तदुःखानां युज्येतापि परीक्षणम् । बाल्यानुभूतदुःखानां हा कष्टं व्यर्थदुःखिता ॥७५॥ अन्ये बाल्याप्तदुःखाश्च प्रमीयन्ते तदैव ये । का तद्गतिर्यदि स्वर्गे हा तदुत्पादनं वृथा ॥७६॥ अलमेतावतैवास्तु किं विचारेण भूयसा । सम्यग्विचारिते भाति मुग्धोक्तिवदिदं मतम् ॥७७॥ पूर्वभवोपात्तपापस्याप्रतिभानतः अथ न दण्डो युज्यत इति न विचारभवं वचः ॥७८॥ संप्रति क्रियमाणानां पापानां भावि दण्डनम् । नाधुना ज्ञायते तस्मात्तत्सत्त्वं स्वीकृतं न किम् ॥ ७९ ॥ न खल्वामुष्मिको दण्डो दृष्टः केनापि कुत्रचित् । किं तु शास्त्रैकनिर्णेयः शास्त्रादेषोऽपि बुध्यते ॥ ८० ॥ पूर्वजन्मकृतैनांसि बोधयन् शास्त्रवाक्यतः । दण्डयन्नीश्वरो लोकान् कथं दोषेण लिप्यते ॥ ८१ ॥ पुनर्जन्मान्तरं नो चेन्मूकाद्यनधिकारिणाम् । कार्या स्यान्निरयैकाशा सृष्टिचैषां निरर्थिका ॥८२॥ तस्मान्मूकादिभावं ते प्राप्ताः प्रागर्जितांहसा । भूयो भवान्तरे तेभ्यो दद्यादेव सुखं विभुः ॥ ८३ ॥ अल्पाधिकापराधानां न न्याय्यं शासनं समम् । तस्मादवाप्तदण्डानां पुनर्जन्म स्वतः स्थितम् ॥ ८४ ॥ अध्यायः २ ] १३ १ अत्र अ पुस्तकस्था टिप्पणी - " किं च पुनर्जन्माभावे साम्परायिकदण्डस्यापि वैयर्थ्यमेवेति वक्ष्यत एव । इति " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy