________________
अध्यायः २]
शास्त्रतत्त्वविनिणयः
ईशोऽनुतापमात्रेण दयावत्त्वादघक्षमाम् । कुर्यादेव हि किं खुष्टविश्वासादेः प्रयोजनम् ॥१७४॥ किं च बाल्ये मृताः खष्टप्रायश्चित्तप्रभावतः । मुच्यन्तेऽविश्वसन्तोऽपि तथान्येऽपि नरा न किम्॥१७५॥. सम्यग्निचार्यमाणं चेद्भवतामीदृशं मतम् । सुधियां पुरतो भाति सर्व मुग्धोदितार्थकम् ॥१७६॥ सैषा खल्विह दोषाणां दिगेव परिदर्शिता । विचारे तु कृते नैकमपि दोषोज्झितं पदम् ॥१७७॥
इति शास्त्रतत्त्वविनिर्णये परमतदूषणनिरूपणं नाम द्वितीयोऽध्यायः ॥३॥
१ अत उत्तरं 'भीरामाय नमः' इति अ पुस्तके.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com