Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 76
________________ शास्त्रतत्त्वविनिर्णयः वस्तुतः सूक्ष्मया बुद्ध्या बुद्धिमद्भिर्विचारिते । सर्वेषामैशशास्त्राणां रीतिरेकैव दृश्यते ॥ ८ ॥ ईशभक्त्येकवर्धिन्यो नृतर्कागोचराः कथाः । श्रद्धैकचक्षुः संप्रेक्ष्याः प्रायेणैशत्वलक्षणम् ॥ ९ ॥ किं त्वस्ति भवतां शास्त्रमल्पमल्पकथं यतः । अल्पानि शङ्कास्थानानि लक्ष्यन्ते तत्र वै ततः ॥ १०॥ अस्माकं तु पुनः शास्त्रं वर्तते बहुविस्तृति । सर्वस्यानुगमस्तस्माद् दुःशकोऽल्पधियां नृणाम् ॥ ११ ॥ सर्वेषामपि तात्पर्यमीशभक्तिविवर्धने अध्याय ः ३ ] २५ 1 १ इति तत्त्वविदः प्राहुर्मूढानां तु भ्रमो वृथा ' ॥ १२॥ संदिश्य शिवमध्वानं भवद्देश्यान्समुद्धरन् । किमस्मान्सकलानीश उपेक्षेतैव केवलम् ॥ १३ ॥ खुष्टं हि कश्चिदज्ञात्वा न मुच्येतेति चेद्भवेत् । तदास्मद्देशजाः सृष्टाः खुष्टाज्ञा नरकाय किम् ॥ १४॥ 6. १ आ पुस्तके अत उत्तरमतिरिक्तः श्लोकः इदं च मे वचः पथ्यं भूयता यदि रोचते । श्रद्धया चाग्रहं स्वस्वस्य मतस्योत्सृज्य दूरतः || ” इति इ पुस्तकेऽयमतिरिक्तः श्लोकः प्राग्लिखितोऽपि पश्चान्निरस्तो दृश्यते एतदादि श्लोकचतुष्टयम् आ पुस्तके पश्चिमशोधरूपेण लिखितं दृश्यते. २ एतदादि श्लोकद्वयम् इ पुस्तके पश्चिमशोधरूपेण विहितं दृश्यते. अस्य श्लोकद्वयस्य स्थाने आ पुस्तके " ज्ञात्वा सृष्टं भवद्देश्याः केवलं स्वर्गभागिनः । अन्ये तदज्ञा ईशेन किं भोक्तुं नरकं कृताः ॥” इति श्लोको यः इ पुस्तके प्राग्लिखि तोऽपि पश्चान्निरस्तो दृश्यते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140