________________
शास्त्रतत्त्वविनिर्णयः
वस्तुतः सूक्ष्मया बुद्ध्या बुद्धिमद्भिर्विचारिते । सर्वेषामैशशास्त्राणां रीतिरेकैव दृश्यते ॥ ८ ॥ ईशभक्त्येकवर्धिन्यो नृतर्कागोचराः कथाः । श्रद्धैकचक्षुः संप्रेक्ष्याः प्रायेणैशत्वलक्षणम् ॥ ९ ॥ किं त्वस्ति भवतां शास्त्रमल्पमल्पकथं यतः । अल्पानि शङ्कास्थानानि लक्ष्यन्ते तत्र वै ततः ॥ १०॥ अस्माकं तु पुनः शास्त्रं वर्तते बहुविस्तृति । सर्वस्यानुगमस्तस्माद् दुःशकोऽल्पधियां नृणाम् ॥ ११ ॥ सर्वेषामपि तात्पर्यमीशभक्तिविवर्धने
अध्याय ः ३ ]
२५
1
१
इति तत्त्वविदः प्राहुर्मूढानां तु भ्रमो वृथा ' ॥ १२॥ संदिश्य शिवमध्वानं भवद्देश्यान्समुद्धरन् । किमस्मान्सकलानीश उपेक्षेतैव केवलम् ॥ १३ ॥ खुष्टं हि कश्चिदज्ञात्वा न मुच्येतेति चेद्भवेत् । तदास्मद्देशजाः सृष्टाः खुष्टाज्ञा नरकाय किम् ॥ १४॥
6.
१ आ पुस्तके अत उत्तरमतिरिक्तः श्लोकः इदं च मे वचः पथ्यं भूयता यदि रोचते । श्रद्धया चाग्रहं स्वस्वस्य मतस्योत्सृज्य दूरतः || ” इति इ पुस्तकेऽयमतिरिक्तः श्लोकः प्राग्लिखितोऽपि पश्चान्निरस्तो दृश्यते एतदादि श्लोकचतुष्टयम् आ पुस्तके पश्चिमशोधरूपेण लिखितं दृश्यते.
२ एतदादि श्लोकद्वयम् इ पुस्तके पश्चिमशोधरूपेण विहितं दृश्यते. अस्य श्लोकद्वयस्य स्थाने आ पुस्तके " ज्ञात्वा सृष्टं भवद्देश्याः केवलं स्वर्गभागिनः । अन्ये तदज्ञा ईशेन किं भोक्तुं नरकं कृताः ॥” इति श्लोको यः इ पुस्तके प्राग्लिखि तोऽपि पश्चान्निरस्तो दृश्यते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com