Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 65
________________ १४ . शास्त्रतत्त्वविनिर्णयः [ अध्यायः २ निश्चितं भवतां शास्त्रं पुरुषैः स्वधिया कृतम् । नृबुद्ध्यनवगाह्यत्वाद्यत्र नोक्तं भवान्तरम् ॥८५॥ अथाकस्मात्सृजञ्जीवान् किंशुद्धान्सृजतीश्वरः। आहो दुष्टधियस्त्वाद्ये शुद्धानां दुष्टता कथम्॥८६॥ यदि वै दुष्टतामीयुः शुद्धान्तःकरणा अपि । हता व्यवस्था सकला दुष्टाः स्युः स्वर्गता अपि ॥८७॥ दोषयुक्तां यदि पुनर्नेबुद्धिं बुद्धिपूर्वकम् । सृजतीश इति ब्रूते तन्मतं दूरतस्त्यजेत् ॥८८॥ किं च भूतेन केनापि नरान्पापे प्रवर्तितान् । दीनान्परवशांश्चापि विभुर्दण्डयतीति ये ॥८९॥ वदन्ति तेऽविचारित्वमावहन्ति परात्मनि । कथं स्वहितकामानां तन्मतं स्याडितप्रदम् ॥९॥ अथ तेन नरः पापाचरणे प्रेरितोऽपि सन् । विचारेण निवर्तेत पापादिति वचो भ्रमात् ॥११॥ नासौ प्रेरयतेऽक्ष्यादीन्स हि प्रेरयते मनः । विचारश्च मनोधर्मो दुष्टे चित्ते कथं भवेत् ॥९२॥ यदौषधं रोगहरं तदेव विषदूषितम् । न गुणाय भवेत्तद्वद्विचारे दूषितं मनः ॥१३॥ ननु युष्मन्मतेऽप्येवं पूर्वजन्मक्रियावशात् । पापं प्रकुर्वतो जीवान्कथं दण्डयतीश्वरः ॥१४॥ १ अत आरभ्य ग्रन्थभागः आ पुस्तकेऽपि विद्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140