________________
द्वितीयोऽध्यायः
अथों मिथोविरुद्धानि दृष्टदोषाणि यानि च । मतानि तान्यसन्तीति ब्रुवन्तं ब्रूमहे वचः ॥१॥ न खल्वत्यन्तगम्भीर आशयः पारमेश्वरः । अल्पबुद्धयर्पितैर्दोषैरत्यक्तुं युज्येत सर्वथा ॥२॥ न तद्विज्ञायते वस्तु भूतं वा भावि किञ्चन । कुशलैः पुरुषैर्यत्र दोषो वक्तं न पार्यते ॥३॥ किं न दोषा बहुविधा भवतां च मते स्थिताः । भवद्भिः श्रद्दधानैस्तत्त्यज्यते किमु तावता ॥ ४ ॥ ते च केचित्प्रदर्श्यन्ते मतिमोहनिवृत्तये । नात्राप्रियात्क्वचिद्वाक्यादप्रीति यात चेतसः ॥ ५॥ सुलभाः पुरुषा लोके सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ ६ ॥ विवादे हि भवत्येव क्वचिदप्रियवद्वचः । ततोऽविकृतधैर्यो यः सारग्राही स बुद्धिमान् ॥ ७ ॥ तत्र तावद्भवच्छास्त्रे पौरुषत्वानुमापकम् । लिङ्गमस्ति स्फुटं तच्च निशामयत कथ्यते ॥ ८ ॥ १ आ पुस्तके ग्रन्थभागोऽत आरभ्यैव विद्यते.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com