Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 10
________________ पञ्च व्ववहाराः ३ अत्राह कश्चिद्-कथमष्टमपूर्वान्तमेव श्रुतं नवमपूर्वादीनामश्रुतत्वम् ? । अत्रोच्यते - आगम्यन्तेपरिच्छिद्यन्तेऽतीन्द्रियाः पदार्था येन स आगम इति व्युत्पत्तेर्नवमपूर्वादीनां श्रुतत्वाविशेषेऽपि केवलज्ञानादिवदतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमत्वेनैव व्यपदेशः । शेषश्रुतस्य तु नातीन्द्रियार्थेषु तथाविधोऽवबोधस्ततोऽस्मिन् श्रुतव्यवहारः । ते च श्रुतव्यवहारिणोऽपराधपदानि शृण्वन्तो मयाऽनाभोगादिना सम्यग् न श्रुतं पुनरालोचयेत्याद्युक्त्वा त्रिरालोचनां दापयन्ति । सदृगालोचनेऽपराधनिष्पन्नं प्रायश्चितं ददतेऽन्यथा माया निष्पन्नमपराधनिष्पन्नं च प्रायश्चित्तद्वयं ददते । इदानीं चागमव्यवहारिणामभावे समयानुसारेणोत्कृष्टतमश्रुतानां श्रुतव्यवहारिणां सन्निधावालोच्यते । २ । आज्ञाव्यवहारस्तु कावपि गीतार्थाचार्यै सम्यगधिगताशेषसूत्रार्थी क्षीणजङ्घाबलौ दवीयोदेशवासिनो परस्परेणोपान्तमागन्तुमक्षमो तयोरेकः प्रायश्चितं जिघृक्षुरगीतार्थं मतिधारणाकुशलं सन्दिष्टवस्तुनयनसमर्थमागमभाषया गूढान्यपराधपदानि कथयित्वा मन्दमेधसं पुनः शिष्यं तानि लिखित्वा का समर्प्य द्वितीयाचार्यसमीपे प्रस्थापयति । सोऽपि गूढपदैः प्रायश्चित्तं कथयित्वा लिखित्वा वा समर्प्य प्रेषयति । एष आज्ञालक्षणस्तृतीयो व्यवहारस्तदुक्तं - देसंतरठियाणं गूढपयालोयणा आण'त्ति । ३ । " धारणाव्यवहारस्तु संविग्नेन गीतार्थेनाचार्येण द्रव्यक्षेत्रकालभाव पुरुषप्रतिसेवना अवलोक्य यत्रापराधे यत् प्रायश्चित्तं दत्तं तद्दृष्ट्वाऽन्याऽपि तेष्वेव द्रव्यादिषु तादृशे वाऽपराधे तदेव प्रायश्चित्तं दत्ते एष धारणाव्यवहारः। अथवा वैयावृत्त्यकरस्य गच्छोपग्रहकारिणः स्पर्द्धकपतेर्वा प्रवर्त्तकस्य संविग्नस्य देशदर्शनसहायस्य वाऽनेकशः कृतकार्यस्य समस्तछेदश्रुतदानाऽयोग्यस्य सानुप्रहो गुरुः कानिचिदुद्धृतानि प्रायश्चित्तपदानि कथयति । स तान्यवधार्योद्धृतपदालोचनां ददाति स धारणा व्यवहारस्तदुक्तम् ' गीयत्थेणं दिनं सुद्धि अवधारिऊण तह चेव । दितस्स धारणा तह उद्धिअपयधरणरूवा य ' । ४ । पञ्चमस्तु जीतव्यवहारः । येष्वपराधेषु पूर्वमहर्षयो बहुना तपःप्रकारेण शुद्धिं कृतवन्तस्तेष्वपराधेषु साम्प्रतं द्रव्यक्षेत्रकालभावान् विचिन्त्य संहननादीनां च हानिमासाद्य तदुचितेन केनचित्तपःप्रकारेण गीतार्थाः शुद्धिं निर्दिशन्ति तत्समयभाषया जीतमुच्यते । अथवा यद्यत्र गच्छे सूत्रातिरिक्तं न्यनं वा कारणतः प्रायश्चित्तं प्रवर्त्तितं तब्जीतं तस्य व्यवहारो जीतव्यवहारस्तदुक्तम् ' दव्वाइं चिंतिऊणं संघयणाईण हाणिमासज्ज | पायच्छित्त जीअं रूढं वा जं जाह गच्छे ' ॥ १ ॥ तथा-' वत्तणुवत्तपवत्तो बहुसो आसेविआ महाणेणं । एसो अ जीअकप्पो पंचमओ होइ नायव्वो ' || २ || वृत्तः- पात्रबन्ध - प्रन्थिदानादिक एकदा नवो जातः, ततोऽनुवृत्तः पुरुषान्तरं यावत्, ततः प्रवृत्तः पुरुषप्रवाहेणात एवासेवितो महाजनेन - बहुश्रुतनिवहेन । भाष्यकृताऽप्युक्तम् ' वत्तो नामं इक्कसि अणुवत्तो जो पुणो बिइअवारं । तइअवारं पवत्ता सुपरिग्गहिओ महाणेणं || १ || बहुसो वहुस्सुएहिं जो वत्तो न य निवारिओ होइ । वत्तणुवत्तपमाणं जीएण कयं हवाइ एयं ' ॥ २ ॥ एष जीतकल्पः पञ्चमो व्यवहारो भवति ज्ञातव्यः । ५ । इह पञ्चसु व्यवहारेषु सत्सु आगमव्यवहारिभ्य एव प्रायश्चित्तमादेयम् । आगमव्यवहारिणो ह्यतिशायनः संकिश्यमानं विशुद्ध चमानमवस्थितपरिणामं वा ज्ञात्वा श्रुतादधिकं हीनं तन्मात्रं वा तावद्ददति यावता शुद्धयति, न श्रुतमनुरुध्यन्ते । Jain Education International 2010_05 For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96