Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 21
________________ श्राद्धजीतकल्पे शिवस्तदधिष्ठितदेशे मार्याधुपशमात् । ३५ । सौम्यः-सर्वजनमनोरमणीयः । ३६ । गुणशतकलितः प्रश्रयादिगुणोपेतः एवंविधः सूरिः प्रवचनानुयोगे योग्यो भवतीतिगाथाचतुष्टयार्थः । यद्वा संविग्गो१ मज्झत्थो२ संतो३ मउओ४ रिऊ५ सुसंतुट्ठो६ । गीयत्थो७ कडजोगी८ भावन्नू९ लद्धिसंपन्नो१० ॥ १ ॥ देसन्नू११ आदेओ१२ मइमं१३ विन्नाणिओ१४ कवी१५ वाई१६ । नेमित्ती१७ ओअंसी१८ उवयारी१९ धारणाबलिओ२० ॥ २ ॥ बहुदिट्ठो२१ नयनिउणो२२ पियंवओ२३ सुस्सरो२४ तवे निरओ२५ । सुसरीरो२६ सुप्पइभो२७ चाई२८ आणंदओ२९ दक्खो३० ।। ३ ।। गंभीरो३१ अणुवत्ती३२ पडिवनपालओ३३ थिरो३४ धीरो३५ । उचियन्नू३६सूरीणं छत्तीसगुणा इमे हुंति ॥ ४ ॥ एतासां व्याख्या शास्त्रोन्तरतो ज्ञेया । यद्वा-' अट्ठविहा गणिसंपय ' इत्यादिनानाप्रकारेरक्ता अनेकधा सूरीणां षट्त्रिंशद् गुणो भवन्तीत्यलं विस्तरेण ॥ १६ ॥ अथ केनेति पञ्चमद्वाराभिधित्सयालोचकस्य दश गुणानाह 'जाइकुलविणयउवसम-इंदिअजयनाणदंसणसमग्गा । अणणुत्तावि अमाई चरणजुयालोअगा भणिआ ॥ १७ ॥ व्याख्या-जात्या-विप्रादिकया मातृपक्षेण वा । १। कुलेनोग्रादिकेन पितृपक्षेण वा । २ । विनयेन-द्विपञ्चाशद्भेदेन । ३ । उपशमेन-क्रोधादिपरित्यागरूपेण । ४ । पञ्चेन्द्रियजयेन। ५ । ज्ञानेनश्रतज्ञानादिरूपेण । ६ । दर्शनेन-श्रद्धानलक्षणेन च समग्राः-सहिताः । ७ । ' अणणुत्तावित्ति । आलोचनानन्तरं पश्चात्तापरहिताः । ८। अमायिनो-मायारहिताः । ९ । चरणयुताः-चारित्रवन्तः । १० । 'आलोअगा भणिअ'त्ति । उत्कर्षतो दशैतद्गुणविशिष्टा आलोचका-आलोचनादानयोग्या भणिता आगमे इतिशेषः । यदुक्तमागमे दसहि ठाणेहिं संपण्णे अणगारे अरहति अत्तदोसं आलोइत्तए। तं० जातिसंपण्णे१ कुलसंपण्णे२ विणयसंपण्णे३ णाणसंपण्णे४ देसणसंपण्णे५ चरित्तसंपण्णे६ खंते७ दंते८ अमायी९ पच्छाणणुतावी१० इति। तत्राऽऽलोचकानां शिष्याणां किमेतावान् गुणकलापोऽन्विष्यत ? इत्युच्यते-जातिसम्पन्नास्तावत् प्रायोऽकृत्यं न कुर्वन्ति कृतं च सम्यगालोचयन्ति । कुलसम्पन्नाः-प्रतिपन्नप्रायश्चित्तनिवाहका भवन्ति । विनयसम्पन्नाः-वन्दनादिकाया आलोचनासामाचार्याः सम्यक् प्रयोक्कारो भवन्ति । उपशमसमया गुरूपालम्भादितर्जिता अपि न कुप्यन्ति । इन्द्रियजयसमग्रास्तपः सम्यक् कुर्वन्ति । ज्ञानसम्पन्ना:-श्रुतानुसारेण सम्यगालोचयन्ति अमुकश्रुतेन मे दत्तं प्रायश्चित्तमतः शुद्धोऽहमिति च जानते । दर्शनसममाः प्रापश्चित्ताच्छद्धिं श्रद्दधते । अननुतापिनो नाम ये पश्चात्परितापं न कुर्वन्ति-हा ! दुष्टं कृतं मया पदालोचितमिदानों प्रायश्चित्ततपः कथं करिष्यामीति । प्रत्युतवं मन्यन्ते-धन्योऽहं यत् प्रायश्चित्तं प्रतिपन्न Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96