Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 55
________________ ४८ श्राद्धजीतकल्पे 'अप्पाहारस्स न इंदियाई विसएसु संपवटुंति । नेव किलिस्सइ तवसा रसिएसु न मुज्झए आवि' ॥ १॥ तथा हिआहारा मिआहारा अप्पाहारा य जे नरा । न ते विज्जा तिगिच्छंति अप्पाणं जे तिगिच्छिगा' ॥ २ ॥२। अङ्गारं नाम यनिर्दोषमप्याहारं भुञ्जानः तद्गतविशिष्टगन्धरसास्वादवशतो जाततद्विषयमूर्छः सन्नहो ! सुसम्भृतं सुस्निग्धं सुपक्वं सुरसमित्येवं प्रशंसति तद्भोजनमङ्गारम् , चरणेन्ध नस्य प्रदीप्तरागाग्निना अङ्गारसन्निभत्वापादनात् । यदुक्तं -' तं होइ सइंगालं जं आहारेइ मुच्छिओ संतो' ।३। धूमं नाम यनिर्दोषमप्याहारं भुञ्जानः तद्गतविरूपरसगन्धास्वादतो जाततद्विषयद्वेषः सत्रहो ! विरूपं कुथितमपक्वमसंस्कृतमलवणं चेति निन्दति तद्भोजनं धूमम् ४ । ' द्वेषामिना चरणे न्धनस्य स धूमोपमत्वकरणात् । आह च- - तं पुण होइ सधूमं जं आहारेइ निंदतो । ४ । अकारण नाम कारणाभावेऽप्याहारग्रहणम् । इह साधूनामाहारग्रहणकारणानि षट् भवन्ति । तानि चामूनि 'वेअणवेयावच्चे इरिअट्ठाए अ संजमाए । तह पाणवत्तिआए छठें पुण धम्मचिंताए' ॥ १॥ अस्या अर्थः-वेदना-बुभुक्षारूपा पीडा तदुपशमनाय । यदुक्तं-' नत्थि छुहाइ सरिसआ विअणा भुंजिज्ज तप्पसमणट्ठा' । तथा आचार्यादीनां वैयावृत्यकरणाय । यदाह-छाओ वेयावच्चं न तरइ काउं अओ भुंजे' । तथा ईर्यापथसंशोधनार्थं । बुभुक्षितो हि ध्यामललोचनत्वादित ईर्यापथं शोधयितुं न शक्नोति । तथा संयमः-प्रत्युपेक्षणाप्रमार्जनादिलक्षणः तदर्थ-तत्परिपालननिमित्तम् । तथा प्राणप्रत्ययार्थ-प्राणधारणार्थं । षष्ठं पुनः धर्मचिन्तार्थ सूत्रानुचिन्तनादिरूपधर्मध्यानामिवृद्धयर्थं भुञ्जीतेति क्रियासम्बन्धः । षड्मिस्तु कारणः साधुने भुजीत । तानि चेमानि 'आर्यके उवस्सगे तितिक्खया बंभचेरगुत्तीसु । पाणिदयातवहे सरीरवुच्छेयणढाए' ॥१॥ अस्या अर्थः-आतङ्के-ज्वराजोर्णादावुत्पन्न सति नाभीयात् । तथा उपसर्गे-राजस्वजनादिकृते देवमनुष्यतिर्यकृते वा सञ्जोते सति तितिक्षार्थमुपसर्गसहनार्थं न भुजीत । तथा ब्रह्मचर्यगुप्तिष्वित्यत्र षष्ठयर्थे सप्तमी । ततोऽयमर्थः-ब्रह्मचर्यगुप्तीनां परिपालनाय न जेमेत् । तथा प्राणिदयाहेतोः वर्ष-वर्षति महिकायां वा पतन्त्यां प्राणिदयार्थं नाभीयात् । सूक्ष्ममण्डूक्यादिसंसक्तायां वां भूमौ प्राणिदयार्थमटनं परिहरन्न भुञ्जीतेति भावः । तथा तपः-चतुर्थादिलक्षणं तद्धेतोः तत् करणनिमित्तं नाद्यात् । तथा शिष्य निष्पादनादिसकलकर्त्तव्यतानन्तरं पश्चिमकाले-पाश्चात्यवयसि संलेखनाकरणेन यावज्जीवानशनप्रत्याख्यानकरणस्यात्मानं योग्यं कृत्वा शरीरस्य व्यवच्छेदार्थ भोजनं परिहरेत् नान्यथा । यतः शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमशनप्रत्याख्यानकरणे जिनाज्ञाभङ्गः। ततश्च यानि षडाहारग्रहणकारणान्यभिहितानि विनापि बलरूपादिनिमित्तं रसगृद्धया वा य आहारो गृह्यते तदकारणं भोजनम् । तथा कारणानि यान्याहारग्रहणविषये प्रदर्शितानि तेषु समुत्पन्नेष्वप्याहाराग्रहणे दोषः । ननु आहाराप्रहणं तपोरूपं तपश्च परमपदापणप्रवणकारणगणाप्रेसरम् । अतः कथं तस्मिन् विधीयमाने दोषसम्भवः ? । भवानुबन्धि-सावद्यव्यापारनिबन्धनत्वाद् दोषापत्तेः । सत्यम् ; परं तपोऽपि जिनाज्ञयैव विधीयमानं सिद्धिनिबन्धनं सम्पद्यते । अन्यथा तु क्रियमाणं तदपि भवानुबन्ध्येव भवेत् । अतस्तस्मिन् तथाविधे दोषापत्तिरपि सम्भाव्यते इति ५ । इति पञ्च ग्रासैषणा दोषाः । सर्वे Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96