Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 75
________________ श्राद्धजीतकल्पे उवविट्ठपडिक्कमणे नासज्जपमज्ज-पुंजणुद्धरणे ।। जिणमुणिगेहागमणे लहुगनपारियजिमणपियणे ॥ ९६ ॥ व्याख्या-अशक्तेरालस्यादेर्वा गृहीतपौषधेऽन्यथा वा श्राद्ध उपविष्टः सन् प्रतिक्रमणं करोति । तथा अन्धकारे परिभ्रमन् बाढमासज्जेति न कथयति त प्रमार्जयति च । तथा द्विवेलमुपाश्रयप्रमार्जनानन्तरं पुखं नोद्धरति । तथा जिनमुनिगेहयो-देवालयोपाश्रययोर्देवगुरुवन्दनाय न गच्छति । तथा प्रत्याख्यानम पारयित्वा भुङ्कते पानीयं च पिबति । एतेषु सर्वेष्वपि लघुकं-लघुमासः प्रायश्चित्तं भवतीति गाथार्थः ।।१६।। पुरिसस्सित्थीफासे चउलाहु इत्थीइ होइ चउगुरुयं । लहुअं संतरफासे अंचलतिरिफासणे मिन्नं ॥९७ ॥ व्याख्या-पौषधेऽङ्गीकृते पुरुषस्य निरन्तरं स्त्रीस्पर्श चतुर्लघु प्रायश्चित्तम् । खियस्तु निरन्तरं पुरुषस्य स्पर्श चतुर्गुरु प्रायश्चित्तम् । तथा सान्तरे स्पर्शे-परम्परसङ्घट्टे द्वयोरपि स्त्रीपुंसोलघुमासः प्रायश्चित्तम् । तथाअञ्चलेन-वस्त्रप्रान्तादिना स्त्रिया सङ्घट्टे तिरश्च्याः स्पर्शने च मिन्नं-मिन्नमासः प्रायश्चित्तं भवतीति गाथार्थः।। तिविह जल-जलणफुसणे विज्जुप्फुसणे अ भिन्न-लहुगुरुगो । चउलहु वग्धारंमी तं चिय दग-मट्टियगमे य ॥ ९८॥ व्याख्या-त्रिविधे-अघन्यमध्यमोत्कृष्टभेदमिन्ने जलस्य-जलदादिसत्कस्य ज्वलनस्याऽग्निज्योतिषश्च स्पर्शने, विद्युतः स्पर्शने च भिन्नं लघुगुरु च । जलादीनां जघन्यस्पर्शने मिन्नं, मध्यमस्पर्शने लघुमासः उत्कृष्टस्पर्शने गुरुमासश्च प्रायश्चित्तं भवति । 'चउलहु वग्घारंमि 'त्ति । वग्यारं नाम या अविच्छिन्ना वृष्टिः । यद्वो-यस्यां वृष्टावुपरि प्रावृतं कम्बलादिकं श्चोतति, यद्वा-उपरितनकम्बलादिकं मित्त्वाऽन्तःकोयमार्द्रयति । तथा ' तं चिय 'त्ति । तदेव चतुर्लघुकमेव प्रायश्चित्तं भवति । क्वेत्याह-उदके मृत्तिकायां च उदकमिश्रमृत्तिकायां वा गमने इति गाथार्थः ॥ ९८ ॥ नववासवुट्टि-किसलयविराहणा जत्तिआणि दिअहाणि । तावइआ चउगुरुगा दसगं छपिआल-सुइनासे ॥ ९९ ॥ व्याख्या-अमिनववर्षाकालवृष्टौ जातायां यानि किशलयान्यनन्तकायरूपाणि भवन्ति । तेषां विराधना यावन्ति दिनानि स्यात्तावन्तश्चतुर्गु रुकाः प्रायश्चित्तम् । अयमभिप्रायः-वर्षाकाले किल प्रथमघृष्टौ जातायां दिनत्रयं यावत् सूक्ष्माङ्करा अन्तर्मुहूर्त्तमात्रकालमनन्तकायरूपाः प्रायः सर्वत्र भूतले प्रतिक्षणं प्रादुर्भक्न्तो भवन्ति । ते च दुर्लक्ष्यतया परिहत्तुं दुःशका अतस्तदानीं तद्विराधनाभीरवो गृहीतपोषधा गृहीतसामायिकाश्वोपासका दिनत्रयं थावत्तत्परिहाराय यथाशक्ति यतन्ते । यतमानानामपि च गृहीतपौषघादीनां श्राद्धानां नवीनाङ्करविराधना यावन्ति दिनानि स्यात्तावन्तश्चतुगुरुकाः प्रायश्चित्तं भवति । तथा ग्रन्थान्तरे सामान्यतो लोहनाशे चतुगुरुकस्रोक्तत्वादन 'सुइ'त्ति सूचिकालयस्य प्रहणम् । ततश्च षट्पद्यालयो-यूकागृहं सूची-सूचिकालयः तयोर्नाश २ दशकं प्रत्यासत्तेश्चतुर्गुरुकाणां प्रायश्चित्तं भवतीति गाथार्थः।। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96