Book Title: Saddha Jiyakappo Author(s): Dharmghoshsuri Publisher: Jain Shwetambar Murtipujak Sangh SuratPage 85
________________ श्राद्धजीतकल्पे व्याख्या-अत्रैष नवविधतपोदानलक्षणः श्रुतव्यवहारनिभिर्नवमिः सप्तविंशतिभिरेकाशीतिभिश्च यथाक्रमं पक्षे आपत्तौ दाने कालत्रिके भवति । अयमर्थः-तत्र सझेपतः तावदयं त्रिभेदः पक्षत्रयभेदात्, आपत्तिभेदतः पुनर्नवभेदः, दानतपोभेदतस्तु सप्तावशतिभेदः, कालत्रिकविशेषेण पुनरेकाशीतिभेदश्च भवति । एतेषां सर्वेषामपि भेदानां स्वरूपं ग्रन्थकारः स्वयमेव पुरस्ताद् व्यक्तीकरिष्यति । एवंविधभेदभिन्नश्च नवविधतपोदानलक्षणः श्रुतव्यवहारो यन्त्रके स्थापितः सुखावसेयो भवतीत्यतो यन्त्रस्थापनामतिदिशति । यन्त्र स्थाप्यमाने तिर्यगूध्वं च दश दश रेखा भवन्तीति । एतत्स्थापना च सकलभेदप्रतिपादनानन्तरं दर्शयिष्यते इति गाथार्थः ॥ १२५ ।। तत्र पूर्व सामान्येन कालत्रयमाश्रित्य नवविधतपोदानश्रुतव्यवहारमेव दर्शयन्नाह उववास-छट्टअट्ठम जहन्न छठट्ठमा दसममज्झा । अट्ठमदसमदुवालस जिट्ठ तिकाले तवो नवहा ॥ १२६ ॥ व्याख्या-अत्र विभक्तिलोपः प्राकृतत्वात् । ततत्रिकाले-ग्रीष्मशिशिरवर्षालक्षणे कालत्रये उपवासादिभिर्जघन्यमध्यमोत्कृष्टभेदेन नवधा-नवभेदं तपो भवति । तथाहि-ग्रीष्मशिशिरवर्षासु यथाक्रम चतुर्थषष्ठाष्टमानि जघन्यानि । षष्ठाष्टमदशमानि मध्यमानि । अष्टमदशमद्वादशान्युत्कृष्टानि दीयन्ते । उक्तं च'गिम्हासु चउत्थं दिज्जा छटुगं च हिमागमे । वासासु अट्ठमं दिज्जा तवो एस जहन्नगो ॥१॥ गिम्हासु छटुगं दिजा अट्टमं च हिमागमे । वासासु दसमं दिजा एस मज्झिमगो तवो ॥२॥ गिम्हासु अट्ठमं दिजा दसमं च हिमागमे । वासासु दुवालसमं एस उक्कोसओ तवो ॥३॥ एष नवविधतपोदानलक्षणः श्रुतव्यवहारोपदेश उच्यते इतिशेष इति गाथार्थः ॥ १२६ ।। अथवा नवविधश्रुतव्यवहारोपदेशोऽयम् । तथैवाह निविय-पुरिमासणंबिल-इगदुतिचउपंचखवण नवह तवो । सुयववहारुवएसा आहेण विभागओ चेव ॥ १२७ ॥ __ व्याल्या-निर्विकृतिकं १, पुरिमार्द्धः २, एकाशनं ३, आचामाम्लं १, एकक्षपणं चतुर्थ२, द्वे क्षपणे षष्ठ ३, त्रीणि क्षपणानि अष्टमं १, चत्वारि क्षपणानि दशमं २, पश्च क्षपणानि द्वादशं ३, श्रुतव्यवहारोपदेशात्-श्रुतव्यवहारमाश्रित्य एवं प्रकारान्तरेण नवधा तपो भवति । अत्रापि विभक्तिलोपः प्रागवत् । इदं च तपो द्विधा । ओघेन-सामान्येन, विभागतो-विशेषेण । चैवशब्दो समुच्चये इति गाथार्थः।। तत्रौघतः प्रागुक्तमेव । विभागतः पुनस्तपःस्वरूपप्रतिपादनार्थं यथोद्देशं निर्देश ' इति न्यायात् 'ति-नवे 'त्यादिपूर्वगाथोपन्यस्तेषु पक्षत्रयादिषु पूर्व पक्षत्रयं स्पष्टयनाह गुरु लहु लहुस तिपक्खा पिहो तिहाऽतिगुरु गुरुतरो गुरुओ । लहुतम लहुतर लहुओ लहुसतमो लहुसतर लहुसो ॥ १२८ ॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International 2010_05Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96