Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 89
________________ श्राद्धजीतकल्पे शिशिरग्रीष्मयोः सप्तविंशतिः सप्तविंशतिः दानतपांसि नामतो लिख्यन्ते । यथा-गुरुपक्षे षण्मासपञ्चमासाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं दशमं, उत्कृष्टमध्यममष्टमम् , उत्कृष्टजघन्यं षष्ठम् । चतुर्मासिकत्रिमासिकाख्यमध्यमापत्तौ मध्यमोत्कृष्टमष्टमं, मध्यममध्यमं षष्ठं, मध्यमजघन्यं चतुर्थम् । द्विमासिकगुरुमासाख्यजघन्यापत्तौ जघन्योत्कृष्टं षष्ठं, जघन्यमध्यमं चतुर्थ, जघन्यजघन्यमाचामाम्लमिति 'शिशिराद्यनवकतपांसि ' इति । लघुपक्षे लघुमासाख्योत्कृष्टापत्तौ उत्कृष्टोत्कृष्टमष्टमम् , उत्कृष्टमध्यमं षष्ठं, उत्कृष्टजघन्यं चतुर्थम् | भिन्नमासाख्यमध्यमापत्तौ मध्यमोत्कृष्टं षष्ठं, मध्यममध्यमं चतुर्थ, मध्यमजघन्यमाचामाम्लम् । विंशत्याख्यजघन्यापत्तो जघन्योत्कृष्टं चतुर्थ, जघन्यमध्यममाचामाम्लं, जघन्यजघन्यमेकाशनकम् इति । शिशिरद्वितीयनवकतपांसि' इति । लघुस्वपक्षे पञ्चदशाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं षष्ठम् , उत्कृष्टमध्यमं चतुर्थ, उत्कृष्टजघन्यमाचामाम्लम् । दशाख्यमध्यमापत्तौ मध्यमोत्कृष्टं चतुर्थ, मध्यममध्यममाचामाम्लं, मध्यमजघन्यमेकाशनकम् । पश्चाख्यजघन्यापत्तौ जघन्योत्कृष्टमाचामाम्लं, जघन्यमध्यममेकाशनकं, जघन्यजघन्य पुरिमार्द्धः । इति 'शिशिरलघुस्वपक्षरूप-तृतीयनवकदानतपांसि' इत्येवं शिशिरे सप्तविंशतिदानतपांसि लिखितानि ।। ___ अथ प्रीष्मसम्बन्धीनि लिख्यन्ते यथा-गुरुपक्षे पाण्मासिकाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टमष्टमम् , उत्कृष्टमध्यमं षष्ठम् , उत्कृष्टजघन्यं चतुर्थम् । चतुर्मासिकत्रिमासिकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं षष्ठ, मध्यममध्यमं चतुर्थ, मध्यमजघन्यमाचामाम्लम् । द्विमासिकगुरुमासाख्यजघन्यापत्तौ जघन्योत्कृष्टं चतुर्थ, जघन्यमध्यममाचामाम्लं, जघन्यजघन्यमेकाशनकम् इति । 'ग्रीष्माद्यनवकदानतपांसि' इति । लघुपक्षे लघुमासाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं षष्ठम् , उत्कृष्टमध्यमं चतुर्थ, उत्कृष्टजघन्यमाचामाम्लम् । भिन्नमासाख्यमध्यमापत्तौ मध्यमोत्कृष्टं चतुर्थं, मध्यममध्यममाचामाम्लं, जघन्यमध्यममेकाशनकम् । विंशत्याख्यजघन्यापत्तो जघन्योत्कृष्टमाचामाम्लं, जघन्यमध्यममेकाशनकं, जघन्यजघन्यं पुरिमार्द्धः । इति 'ग्रीष्मद्वितीयनवकदानतपांसि' । लघुस्वपक्षे पञ्चदशाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं चतुर्थ, उत्कृष्टमध्यममाचामाम्लम् , उत्कृष्टजघन्यमेकाशनकम् । दशाख्यमध्यमापत्तौ मध्यमोत्कृष्टमाचामाम्लं, मध्यममध्यममेकाशनकं, मध्यमजघन्यं पुरिमार्द्धः । पञ्चाख्यजघन्यापत्तौ जघन्योत्कृष्टमेकाशनकं, जघन्यमध्यम पुरिमार्द्धः , जघन्यजघन्यं निर्विकृतिकम् इति । ' ग्रीष्मतृतीयनवकदानतपांसि ' इति ग्रीष्मसम्बन्धीनि सप्तविंशतिदानतपांसि लिखितानीत्यलं प्रसङ्गेन । साम्प्रतं गाथोत्तरार्द्ध व्याख्यायते-एवंविधापत्तिषु द्वादशमाद्यं तपः कर्तुमसहिष्णोरसमर्थस्य एकैकस्वतपसो हासः तावत्कोर्यो योवन्नवस्वपि पङ्क्तिषु पर्यन्ते कोष्ठकगतमेकैकं चतुर्थादिनिर्विकृतिकान्तं तपः स्थितम् । ततस्तस्य तद्दीयत इत्यर्थ इति गाथार्थः ॥१३५।। अथ तत्करणेऽप्यशक्तस्य पुनस्तथैव हासो भवतीति दर्शयति असहस्स तंपि हसइ सट्ठाणाउ दिज परठाणं । इअ हिट्ठमुहे हासे निव्विरं ठाइ सुद्धो वा ॥ १३६ ॥ व्याख्या-असहस्य-तत्करणासमर्थस्य तदपि पक्तिपर्यन्ते कोष्ठकगतमपि तपो हास्यते । ततश्चायमर्थः-पूर्व स्वस्थानतपो दीयते । वर्षासु-वर्षाकालोक्तं, शिशिरे शिशिरोक्तं, प्रीष्मे ग्रीष्मोक्तम् । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96