Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 82
________________ चतुर्विशतिमेदः कल्पः संकप्प-वग्गणाई-कंदप्प-प्णाणकारणाईआ। आउट्टि-दप्प-पमाय-कप्प-पडिसेवणा चउहा ॥ ११७ ।। व्याख्या-आकुट्टिका-दर्प-प्रमाद-कल्पैः कियमाणा प्रतिसेवना चतुर्द्धा-चतुःप्रकारा भवति । कथम्भूतो? इत्याह 'सङ्कल्प-उपेत्य सावद्यकरणोत्साहात्मकः, वल्गनादिः-वल्गनडेपनधावनादिः, कन्दोहास्यजनकवचनादिरूपः, ज्ञान-विशेषश्रुतज्ञानग्रहणं तदेव कारणं ज्ञानकारणम् । एतानि चत्वार्यप्यादौ यस्यां सा तथा । इह चादिशब्दः प्रत्येकं योज्यते । ततो अयमर्थः-सङ्कल्पादिका आकुट्टिकाप्रतिसेवना । वल्गनादिका दर्पप्रतिसेवना । कन्दर्पादिका प्रमादप्रतिसेवना । ज्ञानकारणादिका कल्पप्रतिसेवना। एवं चतुर्दा प्रतिसेवनेति । इदमुक्तं भवति-सङ्कल्पेन या क्रियते साऽऽकुट्टिका प्रतिसेवना । वल्गनादिभिर्या क्रियते सा दर्पप्रतिसेवना । कन्दर्पण दिवा रात्री वा प्रतिलेखनाप्रमार्जनाद्यनुपयुक्ततया वा या क्रियते सा प्रमादप्रतिसेवना । ज्ञानदर्शनादिना चतुर्विशतिभेदेन कारणेन गीतार्थेन कृतयोगिनोपयुक्तेन पुरुषेण यतनया या क्रियते सा कल्पप्रतिसेवनेति गोथार्थः ॥ ११७ ॥ उक्ताः स्वरूपतः प्रतिसेवनाः । सम्प्रति तास्वेव प्रायश्चित्तविधिमाह भणियमिण तु पमाए दप्पे वढिज्ज ठाणमाउटिए । ठाण तरं व दिज्जा कप्पे पडिकमणमुभयं वा ॥ ११८॥ व्याख्या-इदं तु जीतव्यवहारेण यत्तपोदानं भणितमुक्तम् , तत् प्रमाद एवोक्तम्-प्रमादप्रतिसेवनाकारिणः पुरुषस्यैवोक्तम् । दर्प-दर्पप्रतिसेवनाकारिणः पुरुषस्य पुनः स्थानं-प्रमादप्रतिसेवकप्रायश्चित्तस्थानादेकं स्थानान्तरं वर्द्धयेत् । अयमर्थः-प्रमादप्रतिसेवनया मिन्नमास-लघुमास-गुरुमासचतुर्लघु-चतुर्गुरु-षडलघु-षड्गुरूणामापत्तौ निर्विकृतिक-पुरिमार्द्धंकाशनाचा ल-चतुर्थ-धष्टाष्टमास्यं तपो दीयते । दर्पप्रतिसेवनाकारिणस्तु मिन्नमासादीनामापत्तौ सत्यां स्थानान्तरवृद्धिः कार्या-निर्विकृतिकं मुक्त्वा पुरिमा दीनि दशमान्तानि तपांसि देयानीत्यर्थः । तथा आकुट्टिकायाम्-आकुट्टिकाप्रतिसेवनायां पुनः स्थानान्तरं वा दद्यात् । दर्पप्रतिसेवाकारिणः सकाशात् स्थायवृद्धयाऽधिकं तपःस्थानं वितरेत् । दर्पाऽऽसेविनो हि भिन्नमासाद्यापत्तौ पुरिमार्द्धादीनि दशमान्तानि दीयन्ते । अस्य त्वेकाशनादीनि द्वादशमान्तानि देयानि, वाशब्दात् स्वस्थानमेव वा दद्यात् । इहापत्तिरूपं प्रायश्चित्तं स्वस्थानमुच्यते । यथाऽऽकुट्टिकायां पञ्चेन्द्रियवधे मूलम् । अन्यत्रापि चाकुट्टिकायां यत्रापराधनाते यद्भिन्नमासादिकमुक्तं तत्तत्र स्वस्थानम् । तदेवाकुट्टिकाप्रतिसेविनो दद्यादित्यर्थः । तथा कल्पे-कल्पप्रतिसेवनायां प्रतिसेवितायां प्रतिक्रमणं-मिथ्यादुष्कृतं प्रायश्चित्तम् । वा-अथवा उभयम्-आलोचना-मिथ्यादुष्कृतोभयरूपं प्रायश्चित्तं द्वयं दद्यादिति गाथार्थः ॥ ११८ ॥ अथ के ते कल्पचतुर्विशतिभेदा १ इत्याह दंसणनाणचरित्ते तवपवयणसमिइगुत्तिहेउ वा । साहम्मिअवच्छल्लत्तणेण (वावि ) कुलओ गणस्सेव ॥ ११९ ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96