Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 81
________________ ७४ श्राद्धजीतकल्पे हीनस्य-धृतिसंहननादिरहितस्यापरिणतादेर्वा हीनतरं-जीतोक्तादल्पतरं दद्यात् । तथा सर्वहीनस्य-सर्वथा धृतिसंहननादिशक्तिविकलस्य झोषयित्वा मिथ्यादुष्कृतेनैव तस्य शुद्धिरादेश्येत्यर्थ इति गाथार्थः ।। ११३ ॥ 'भणिअं च 'त्ति । भणितं चागमे इतिशेषः । किमित्याह पणगं मासविवड्ढी मासगहाणीय पणगहाणीय । एगाहे पंचाहं पंचाहे दिति एगाहं ॥११४ ॥ रागद्दोसविड्ढेि हाणिं वा नाउं दिति पचक्खी । चउदसपुवाई वि हु तह नाउं दिति ऊणहि ॥ ११५ ॥ व्याख्या-'रागद्दोसे 'त्यादि द्वितीयगाथापूर्वार्द्ध । रागद्वेषयोर्विवृद्धि हानि वा ज्ञात्वा-अवगम्य प्रत्यक्षिणः-प्रत्यक्षज्ञानिनः केवलमनःपर्यायावधिज्ञानिनोऽधिकं हीनं वा जीतोक्ताद्ददतीति क्रियासम्बन्धः । कथमित्याह-'पणग'मित्यादि । प्रत्यक्षागमज्ञानिनस्तुल्ये अपराधे सति पञ्चकयोग्यपुरुषस्य स्वरूपं विचार्यैकस्य पश्चकं भिन्नं ददति, अपरस्य तु रागद्वेषविवृद्धिमुपलभ्य मासविवृद्धि-मासेन मासाभ्यां मासैर्वा वृद्धि प्रयच्छन्ति-पश्चकस्थाने लघुमासादिकं वा ददतीत्यर्थः । उपलक्षणमेतत् मूलमनवस्थाप्यं पाराश्चिकं वा यच्छन्ति । तथा तुल्येऽपि पारानिकयोग्ये अपराधे एकस्य पाराश्चिकमपरस्यानवस्थाप्यं मूलं छेदं वा मासेन मासाभ्यां मासर्वा हान्या तपश्चशब्दात् पञ्चकं यावदन्ते नमस्कारसहितं, हा ! दुष्टं कृतं, हा ! दुष्टं कारितं, हा ! दुष्टं अनुमोदितं मयेत्येवं वैराग्यभावनातो रागद्वेषहानि भूयसीमतिभूयस्तरामुपलभ्य प्रयच्छन्ति । तथा कस्यचिन्मासिकप्रतिसेवनायामल्पां रागद्वेषहानिमुपलभ्य पञ्चकहान्या मासिकं ददति-पञ्चविंशति दिनानि ददतीत्यर्थः । तथा एकोहं नामाऽभक्कार्थः तस्मिन् प्रतिसेविते कस्यचिद्रागद्वेषवृद्धिमुपलभ्य पश्चाहं ददति । तथा अपरस्य रागद्वेषहानिमुपलभ्य पश्चाहे प्रतिसेविते एकाहमुपलक्षणत्वादोचाम्लमेकाशनं पूर्वार्द्ध निर्विकृतिकं पौरुषों नमस्कारसहित वा प्रयच्छन्तीति । नन्वेवं प्रत्यक्षागमज्ञानिन एव ददत्युतान्येऽपि ? इत्यत आह-' चउदसपुव्वाई 'त्यादि द्वितीयगाथोत्तरार्द्ध । हुनिश्चये । एवं चतुर्दशपूादयोऽपि, आदिशब्दान्नवदशादिपूर्वधरा एकादशोङ्ग-निशीथादिश्रुतधारिणोऽपि, तथा तेनैव प्रकारेण रागद्वेषयोवृद्धि हानि वा ज्ञात्वा जीतोक्तादधिकमूनं वा प्रायश्चित्तं ददति । अत्राधिकशब्दस्य पुरोनिपातश्छन्दोनुरोधादवसेय इति गाथाद्वयार्थः ॥ ११४-११५ ॥ इदं च प्रायश्चित्तं पुरुषाणामिव स्त्रीणामपि दातव्यमित्यत आह एयं पायच्छित्तं जह पुरिसाणं तहेव इत्थीण । नाऊण सत्तमेसिं दिज्जाहि विसोहणट्ठाए ॥ ११६ ॥ व्याख्या-एतच्च प्रायश्चित्तं यथा-येनैव प्रकारेण पुरुषाणां दातव्यमुक्तं तथैव-तेनैव प्रकारेण स्त्रीणामपि दातव्यम् । किं कृत्वेत्याह-ज्ञात्वा सत्त्वं-शक्तिमासां-खीणां प्रायश्चित्तं दद्यात् । किमर्थमित्याहविशोधनार्थाय-पूर्वकृतातिचारमलक्षालनायेति गाथार्थः ।। ११६ ।। ___उक्तं पुरुषद्वारमिदानी प्रतिसेवनाद्वारमाह ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96