Book Title: Saddha Jiyakappo
Author(s): Dharmghoshsuri
Publisher: Jain Shwetambar Murtipujak Sangh Surat

Previous | Next

Page 78
________________ विस्मृताज्ञातस्तादिसर्वाचारातिचारविषयं प्रायश्चित्तम् ७१ अविधिना न्यूनाधिकावश्यकत्वादिना दत्ते, अपूर्ण वा पदवाक्यछन्दनादिमिन्यूनं वा दत्ते । तत्रैकस्य वन्दनकस्य गुरोः पूर्वं पश्चाद्वा दानादौ मिन्नमासः। द्वयोर्वन्द नकयोलघुमासः । त्रयाणां वन्दनकानां गुरुमासः । चतुर्णा वन्दनकानां चतुलघु । सर्वथा त्वदत्ते एकस्मिन् वन्दनके लघुमासः । द्वयोर्वन्दनकयोर्गुरुमासः । त्रिषु वन्दनकेषु चतुर्लघु । चतुर्पु वन्दनकेषु चतुर्गुरु प्रायश्चित्तं भवतीति गाथार्थः ॥ १०५ ॥ पडिकमणस्साकरणे चउगुरु चउलहु वइट्टपडिकमणे । गुरु वंदणगाकरणे बइट्टकरणे अ लहुमासो ॥ १०६ ॥ व्याख्या-श्राद्धो निष्कारणं प्रतिक्रमणं न करोति चतुर्गुरु, आलस्यादिनोपविष्टः सन् करोति चतुर्लघु प्रोयश्चित्तं भवतीति । एवं वन्दनकं न ददाति गुरुमासः , उपविष्टः सन् ददाति लघुमासः प्रायश्चित्तं भवति । चशब्दात्क्षमाश्रमणादेरविधिना दानादानयोभिन्नादि ज्ञेयमिति गाथार्थः ॥ १०६ ।। अथ वीर्यातिचारमेव सामान्येनाह पडिकमण-दाण-पूआ-तव-सज्झायाइ थोवकरणंमि । गुरुगो बहुसामत्थे लहु नियमे मुणि-जिणानमणे ॥ १०७ ।। व्याख्या सामान्येन नियमे सति बहुकरणसामर्थेऽपि प्रतिक्रमणं स्तोकं करोत्येकवारमित्यर्थः । एवं दाने सप्तक्षेत्र्यादिविषये शक्ति निगूहति । पूजायाश्च त्रिकालकरणसामग्यामेकवेलादिकरणे । एवं तपःस्वाध्यायसंविभागादिविषयेऽपि स्तोककरणे गुरुमासः। तथा नियमे सति दिनमध्ये देव-गुरूणामवन्दने लघुमासः प्रायश्चित्तं भवतीति गाथार्थः । इह च सामान्येन वीर्याचारे निगृहिते चतुर्लघु । विशेषतस्तु-' नाणाइ निगूहि गुरू दव्वाइ अभिग्गहागहे य लहू । नाणे-पढणगुणणाइसु आलस्सं करेइ । दसणे-वच्छल्लकरणाइसु न उज्जमइ । चरित्ते-मूलउत्तरगुणेसु पमायं करेइ । तवंमि-विणयवेयावचाइ न करेइ'। मासगुरु प्रायश्चित्तं भवतीति । द्रव्यक्षेत्रकालभावाद्यभिग्रहाणामग्रणे, तुशब्दाद्भङ्गे च लघु । 'मायाए अप्पाणं नाणतवविरिआइसंजुयं कहंतस्स लहु' इति ।। १०७ ॥ अथ विस्मृताज्ञातकृतादिसर्वाचारातिचारानाश्रित्याह चउम्मासिअवरिसे सामन्नालोअणासु पाएण । विम्हरिअन्नायकए सुद्धस्स वि पंचकल्लाणं ॥१०८॥ व्याख्या-चातुर्मासिकायां वार्षिकायामनिर्धारितवर्षसङ्ख्यबालालोचनारूपायां सामान्यायां वाऽऽलोचनायां प्रत्येकं पञ्चकल्याणम् । अन्ये त्वाहुः-प्रतिवर्षमालोचनाग्राहिणः पश्चाचारान् प्रति प्रत्येकं पञ्चकल्याणं-पश्चाशचतुर्गुरुका इत्यर्थः । अपरे पुनः प्राहुः-आलोचनानन्तरं यावन्ति वर्षाणि यान्ति तावन्ति पञ्चकल्याणानि दीयन्ते । एतत्पश्चकल्यादि प्रायश्चित्तं किंविषयम् ? इत्यत आह-' विम्हरिए' त्यादि । विस्मृताज्ञातकृतविषये । अयमर्थः-तत्तप आलोचयतो यत्किमपि अनाभोगादिना विस्मृत, यच्च पूर्वमतिचारकरणकाले न ज्ञातं तदानित्य ज्ञेयं, न पुनर्मायादिना निगृहितातिचारविषयेऽपि । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96